________________
पुद्गलस्य चत्वारो मेवाः पुद्गलद्रव्यस्य चत्वारो भेदाः भवन्ति-१-स्कन्धः, २-स्कन्ध-देशः, ३-स्कन्धप्रदेशः, ४-परमाणुश्चेति । तत्रानन्तानन्तः परमाणुभियुक्तः स्कन्धः, स्कन्धा? स्कन्धदेशः, तदर्धश्च स्कन्धप्रदेशः। परमाणुश्च सर्वथाऽविभागी सूक्ष्मतमश्च भवति । इन्द्रियाणि, शरीरं, मनः, इन्द्रियविषयाः, श्वासोच्छवासादयश्चास्यैव विविधा परिणामाः" । स्कन्धमेदाः स्कन्ध. स्वपरिणमनक्रियया षड्विधो भवति-(१) स्थूल-स्थूलाः (Gross-Gross) (२) स्थूलाः (Gross) (३) स्थूलसूक्ष्माः (GrossFine) (४) सूक्ष्म-स्थूलाः (Fine-Gross) (५) सूक्ष्माः (Fine) (६) सूक्ष्मसूक्ष्माः (अतिसूक्ष्माः ) (Fine-Fine) इति । १-अतिस्थूलाः (Gross-Fine)-ये स्कन्धाः छिन्नतां भिन्नतां वाप्ताः सन्तः पुनर्मिलितुमशक्तास्ते स्थूलस्थूलाः । यथाहि-काष्ठ-शिला-पर्वत-पृथिव्यादयः।
२--स्थूलाः (बावराः) (Gross)-ये च स्कन्धाः छिन्नतां भिन्नतां वाप्ता. सन्त स्वत एव मिलनक्षमास्ते स्थूलाः । यथा--दुग्ध-तैल-जलादयः । ३--स्थूलसूक्ष्माः ( बादरसूक्ष्माः) (Gross-Fine )-येषा स्कन्धानां स्थूलत्व केवल दृष्टिपथमेवायाति, किन्तु न ते कदापि छेद्या. भेद्याः वा भवन्ति । ते बादरसूक्ष्मा इत्युच्यन्ते । यथाहि-छाया-आतप-अन्धकार-प्रकाशप्रभृतयः । ४-सूक्ष्म-स्थूलाः (सूक्ष्मबादरा.) ( Fine-Gross )--ये च स्कन्धाः सूक्ष्मत्वे सत्यपि स्थूला इव प्रतीयन्ते, ते चतुरिन्द्रियविषयाः स्पर्श-रस-गन्धशब्दाः सूक्ष्म-स्थूलाः भवन्ति ।
५-सूक्ष्माः (Fine)-ये सूक्ष्मत्वान्नेन्द्रियग्राह्यास्ते कर्मवर्गणादयः सूक्ष्मस्कन्धा. भवन्ति। ६-अतिसूक्ष्माः ( सूक्ष्मसूक्ष्माः ) ( Fine-Fine )-कर्मवर्गणाभ्योऽपि सूक्ष्मा' व्यणुकस्कन्धं यावत् सर्वेऽपि स्कन्धाः सूक्ष्मसूक्ष्मा' (अतिसूक्ष्माः) भवन्ति। परमारणः (Atom) परमाणुः परमातिसूक्ष्मः", अविभागी५ चास्ति । शब्दकारणोऽपि सन् अनवर्शने विवेचनम्