________________
स्वयमशब्दः, शाश्वतोऽपि सत्युत्पादव्यययुक्तो भवति । प्रत्येकस्मिन् परमाणो स्वभावत एवंकरसरूपगन्धाः, द्वे स्पर्श च भवन्ति । अर्थात् श्वेतरक्तनीलपीतकृष्णवर्णेषु कश्चनको रूपः (वर्णः) परिवर्तनशीलो भवति, मधुराम्लकटुकषायतिक्तेषु कश्चनको रसः परिवर्तनशीलः, सुगन्ध-दुर्गन्धयो कश्चनको गंधोऽप्यवश्यमेव भवति। शीतोष्ण-स्निग्धरूक्षयोश्चकैक कश्चनापि स्पर्शः, अर्थात् द्वौ स्पर्शी प्रत्येक परमाणौ भवत', शेषा मृदुकर्कशाः गुरुलघु चेमे स्पर्शा., स्कन्धावस्थायामेव भवन्ति, न तु परमाणौ। अयमेकप्रदेशिपरमाणु. स्कन्धानां सयोजकरवाद् हेतुः (कारणं), विभाजकत्वाच्च कार्यमप्यस्ति । अत पुद्गलस्य परमाणुरूपावस्था स्वाभाविकी, स्कन्धरूपा चावस्था विभावपर्याययुक्ता भवति। रूपिरणः पुद्गलाः पुद्गल. रूपिद्रव्यम्, अन्ये च सर्वेऽरूपिण , इदमेवास्यान्येभ्य. पार्थक्यम् । द्रव्यमिद वर्ण - गन्ध - रस - स्पर्शात्मकत्वात्, इन्द्रिय-ग्राह्यत्वाच्च रूपी (Material) । पुद्गलस्यमे मूर्तगुणा परमाणुत पृथ्वीस्कन्ध यावत्सर्वत्रापि प्राप्यन्ते, इमे च सर्वेऽपि रूपिणः सन्ति । अदमवधारणीयम्-यदस्मिन् वर्ण-रस-गन्ध-स्पर्शाश्चत्वारोऽपि गुणा सर्वदेव तिष्ठन्ति, न कदापि कुत्रापि एको द्वौ त्रयो वा । इद तु सम्भाव्यते यदेकस्मिन् काले एकः प्रमुख इन्द्रियग्राह्यो वा स्यात्, अपरे तु गौणा , अतीन्द्रिया' वा स्यु , पर न तत्रषु कस्याप्यभावो सम्भाव्यते । अस्य सिद्धान्तस्य समर्थनमाधुनिकेन विज्ञानेनापि कृत विद्यते । तथाहि-वैज्ञानिक हाइड्रोजननामको वायु (Hydrogen) नाइट्रोजन (Nitrogen) नामको वायुश्च (Gas) वर्ण-गध-रसरहितोऽभिहित “ । परन्त्वनेन क्थनेन नानयोरेषा गुणाना सर्वथाभावो गृहीतु शक्यते, यतो ह्यनयो वाय्वोरेक. स्कन्धपिण्ड. अमोनिया' (Amonia) नामको विद्यतेऽस्मिन् हाइड्रोजननामकस्य वायोरेकोऽश , नाइट्रोजननामकस्य वायोश्च त्रयोऽशाः भवन्ति । स्कन्धे चास्मिन् वैज्ञानिक रसगन्धयोः स्वीकार कृतो" विद्यते। विज्ञानस्याय सर्वमान्य. मूलभूतच सिद्धान्त. 'यन्नासत उत्पत्ति. सतश्च विनाशो जायते', अनेनैव सिद्धान्तेन 'अमोनिया' स्कन्धे वर्तमानयो. रसगन्धयोः स्वीकारे कृते सति कथमुपयुक्तयो वाय्वोरस्वीकार स्वीक्रियते, यतो ह्यनयोरेव परिणामोऽमोनियास्कन्ध, नान्यः कश्चित् । किञ्च, यद्यनयोटिवोर्नेमौ गुणौ विद्यते, तत्कथमनयोः परिणामे
जनदर्शन आत्म-प्रव्यविवेचनम्
७०