________________
(Resultant) अमोनियास्कन्धे इमौ गन्धरसी स्याताम् ? न कश्चनाप्येतादृशो गुणो वर्तते यस्य परमाणावभावे सति स्कन्धे सत्ता स्यात् । अतोऽनेन यथानयोaat रसगन्धौ सिध्येते, तथैव वर्णोऽपि साध्यः स्यान्नत्वसाध्यः । अस्य केवलमयमेवाशयः यत् पुद्गले सर्वत्रव वर्णरस- गन्ध-स्पर्शानां साम्येनास्त्यस्तित्वम्, न तु कस्याप्यभावेन ।
शब्दस्य पुद्गलपर्यायत्वम
पुद् गलद्रव्यस्य पर्यायाः - शब्दः ( Voice), बन्ध (Bondage), सौक्ष्म्यं (Fine-ness), स्थौल्यं ( Gross-ness ), सस्थानं ( Figure ), भेदः, तमः, छाया, आतपः (Hot Light), उद्योतादय: ( Cold-light ) " च । वैशेषिकादिभिरशब्दमाकाशगुणमभिहितम्, किन्त्वाधुनिकविज्ञानेन विविधेर्यन्त्रैरशब्द, संग्राह्य तस्य पौद्गलिकत्व साधितम् । शब्द: पौद्गलिकैरेव यन्त्रैर्ग्रह्यते, पौद्गलिकेनैव यत्रेण धार्यते, पौद्गलिकैरेव पदार्थैरवरुध्यते, कर्णपटलादीन् ( पौद्गलिकान् ) एव विदारयति, पीद्गलिकमेव वातावरणमनुकम्पयति, अतएवायमपि पौद्गलिक सिध्यति ।
अय स्कन्धानां पारस्परिक संघर्षात् संयोगात्, विभागाद्वोत्पद्यते, जिह्वातात्वादीना सयोगादपि नानाप्रकारका प्रायोगिकशब्दा उत्पद्यन्ते, अस्योत्पादकानि निमित्तकरणान्युपादानकारणानि च पौद्गलिकान्येव सन्ति । यदा स्कन्धाभ्या संघर्षात्किश्चन शब्द उत्पद्यते, तदा सः स्वशक्त्या पार्श्ववर्तिनः स्कन्धान्नपि शब्दायमानान् करोति, यथाहि-- जलाशये पाषाणखण्डे प्रक्षिप्ते समुत्पन्न प्रथमस्तरङ्ग स्वीयगतिशक्त्या स्वपार्श्ववर्तिनं जलमपि क्रमशस्तरङ्गयति, अथ चाय क्रम येन केन प्रकारेण स्ववेगानुसारमतिदूरमपि जलमतिक्रामति । इत्थ शब्दो नाकाशगुणोऽपितु पुद्गलपरिणाम एव ।
शब्दस्य पुद्गलगुणत्वनिरसनम्
अत्रायम्प्रश्नः यद्यथा वर्ण- गन्ध-रस-स्पर्शा पुद्गलगुणास्तथैव शब्दस्यापि पौगलिकत्वे सिद्धे कथं न पुद्गलगुणत्व स्वीक्रियते, यतो हि यथा वर्णादयो क्रमशश्चक्षुरिन्द्रियादीना विषयास्तथैव शब्दोऽपि श्रोत्र न्द्रियविषयः । तन्न समीचीनं प्रतिभाति, यतो हि गुणा द्रव्यस्य आधारभूताः तलिङ्गाः " भवन्ति, अत शब्दो न पुद्गलगुण. नापि स पुद्गलद्रव्ये सर्वदा प्राप्यते । अतः स पुद्गलपरिणाम एव भवितु शक्नोति, यतश्च स पुद्गलस्कन्धानां . पारस्परिकसघर्षादुत्पद्यते ।
अनदर्शने द्रव्यविवेचनम्
७१