________________
यदि शब्दस्य पुद्गलगुणत्वं स्वीक्रियेत तदा सर्वदा पुद्गलश्शब्दरूप एव स्यात्, किन्तु नैतादृशो वस्तुतः दृश्यतेऽतः शब्दस्य पुद्गलगुणत्वं नोचितम्, नापि स्वीकतुं शक्यते । धर्मद्रव्यम् (Medium of Motion) अनन्तेऽस्मिन्नाकाशे लोकस्याकारं निश्चेतुमिदमावश्यकं यत्काचिदेताशी विभाजिका रेखा मौलिकाधारयुक्ता भवितव्या, यया जीवपुद्गलानां गमन तावदेव स्यान्न तस्या बहि. । आकाशमेकममूर्तमखण्डमनन्तप्रदेशि, सामान्यसत्तया च सर्वत्र स्थित द्रव्यमतोऽस्य निर्धारितप्रदेशं यावदेव जीवपुद्गलाना गमन स्यान्न तदने, इत्यात्मके नियन्त्रणे नाकाश. क्षम., यतो हि तस्मिन् प्रदेशभेदत्वेऽपि न स्वभावभेदो विद्यते । जीवपुद्गलास्तु स्वत एव गतिस्वभावा , अतो न तेषा स्वतः स्थिते. प्रश्न., अस्मात्कारणादेव जैनाचार्य: लोकालोकविभागार्थमाकाशसदृशमेकममूर्तिक निष्क्रियमखण्ड धर्मद्रव्य स्वीकृतम् । यश्च गतिशीलाना जीवपुद्गलाना गमनक्रियायां साधारणो हेतुः । नाय धर्म कञ्चनमपि द्रव्य सचोद्य सचालयत्यपितु ये गतिमन्त पुद्गलजीवास्तेऽनेन माध्यमेनाश्रयं गृह्णन्ति । लोकान्तस्त्विदं द्रव्यं सामान्यं, परं लोकान्ते तु नियन्त्रकरूपेण स्पष्टं परिज्ञायते, यद्धर्मद्रव्यमप्यस्तित्ववान्, येन सर्वेऽपि पुद्गलजीवा' स्वीय गमन तावत्पर्यन्तमेव विधातु शक्ता, नाग्रेऽपि । धर्मशब्दस्य द्रव्यवाचकत्वम् वर्धमान महावीरेणोक्तम् द्रव्यं व्याख्याययता, यत्--'गुणाश्रयो द्रव्यम', अनेनेद सुस्पष्ट भवति यदत्र धर्मशब्दः नात्मशुद्धिसाधन.", नापि कर्त्तव्यगुणवाचि वास्ति । अपितु धर्मद्रव्यमेक", लोकव्याप्त, शाश्वत, वर्ण-गन्ध-रसस्पर्शशून्यञ्च, जीवानामणूनाञ्च गतिक्रियाया सहायकम् । जीवाना गमनागमने, भाषणोन्मेषौ, मानसिक-वाचिक-कायिक्या' वान्या. प्रवृत्तयोऽपि धर्मेणव सम्पाद्यन्ते"। धर्मद्रव्यस्यावश्यकता धर्मास्तिकायस्य कल्पन न केवल वागाडम्बरमात्रमित्यस्य विश्लेषणं जैनदार्शनिकरित्थ कृत विद्यते--जनदर्शनस्येयं मान्यता, यदाकाशमनन्तं, विश्वञ्च तदेकदेशवति, यदीत्थ न स्यात्तर्हि विश्वस्यकको परमाणुरनन्तेऽस्मिन्नाकाशे प्रकीर्ण स्यादथ चास्य विश्वस्य सघटनमप्यसम्भव स्यात् । अतः वर्तते कञ्चनैतादृशमेक द्रव्य यच्च लोकपरिमित, गतिक्रियायां सहायकञ्चास्ति । इयमेवास्त्यस्य धर्मद्रव्यस्यापेक्षा।
जैनवर्शन आत्म-अध्यविवेचनम्