________________
धर्मद्रव्यस्य स्वतंत्र कल्पनम्
आत्मा अणुश्चेमी द्वावेव गत्यात्मको । स्वगतेरुपादानकारणे त्विमावेव, परं निमित्तं कारणं किम् ? पृथ्वी जलादीनि न लोकपरिमितानि, गतिस्तु सम्पूर्ण लोके एव दश्यते, वाय्वादयस्तु स्वत एव गतिशीलाः, आकाशरच लोकालोकव्याप्तः परं न जीवपुद्गलानां गतिस्सर्वत्रैवालोक्यते ? कालश्चापि गतिनिरपेक्षः, इत्थं निर्धारितेषु द्रव्येषु नैकमपि द्रव्य गतिमाध्यम प्रतीयते, अस्मात्कारणादेव धर्मद्रव्यस्य स्वतंत्रा कल्पना स्वाभाविका, बुद्धिगम्या चास्ति ।
धर्मद्रव्यस्य सहायस्वरूपम्
गतिक्रियायां जैनमनीषिभिः
आत्मनोऽणोश्च उदासीनमाध्यमरूपेण धर्मद्रव्यं निरूपितम् । धर्मद्रव्य कथ जीवपुद्गलानां गमने सहायको भवतीति कुन्दकुन्दाचार्यै निर्दिष्टम् 'धर्मास्तिकायो न तु स्वत गच्छति, नापि कञ्चन द्रव्य गमयति, तत्तु केवल गतिसाधनमात्रमेव यथाहि जलं स्वयमगच्छन्, मत्स्यान्नप्यगमयन् तासा गतावनुग्रहशील, तथैव जीवपुदगलेभ्यो धर्मद्रव्यमपि ज्ञेयम्" ।
terror प्राधुनिको गतिमाध्यमः
गतिक्रियाया विश्लेषणे प्रवृत्ते राधुनिके वैज्ञानिक. प्राय द्विशताब्दपूर्वमेन सिद्धान्तं परिज्ञाय 'ईथरद्रव्य' परिकल्पितम् । एकोनविंशतिशताब्दी यावत् वैज्ञानिके जगति द्रव्यस्यास्य न किमपि स्थानमासीत् । सृष्टेः प्रत्येकेष्वणुषु विचारशीलो वैज्ञानिकवर्गोऽस्या सृष्टे महत्वपूर्णेनानेनाङ्गनापरिचित एवासीत् । किन्तु यदायं प्रश्न समुपस्थित यत्सूर्यादिग्रहनक्षत्राणां मध्ये वर्तमानेऽस्मिन् शून्यप्रदेशे कथमिमा प्रकाश किरणाः एकस्मात्स्थानादन्यं स्थानं गच्छन्ति ? कश्च तासां गतिमाध्यमः ? कथञ्चायं भारवान् प्रकाश. (पूर्ववैज्ञानिक : प्रकाश भाररहित एवाङ्गीकृत आसीत् किन्त्वद्य प्रभृतिः तैः प्रकाशः भारयुक्त. स्वीकृतः, अयमपि सिद्धान्तः जैनदर्शने पूर्वकालादेव विद्यते) माध्यमेन विनैवान्यं स्थान यावत् गच्छेत् ? अस्यैव प्रश्नस्य समाधानरूपेण एभि: 'ईथरद्रव्य' कल्पितं, स्वीकृतञ्च - 'यदीथरद्रव्य न केवलमाकाशीयग्रहनक्षत्रमध्ये स्थिते शून्यस्थाने एव विद्यतेऽपितु सूक्ष्मतमस्य परमाणोरप्यन्तः शून्ये देशे विद्यते' |
ईथरसम्बन्धिप्राथमिकधारणाष्विद प्रतिपादितमासीद् यदस्मिन् सघनत्वं, तरलत्वं भौतिकत्वञ्च वर्तते । परमस्या विंशतिशताब्दयां जातैर्गवेषजैनदर्शने द्रव्यविवेचनम्
७३