________________
णाभिरीद्रव्यस्य तदेव स्वरूपं निश्चितं, यन् जैनदर्शने धर्मद्रव्यस्य स्वरूप विद्यते । ईथरद्रव्यस्य धर्मद्रव्येण कियत्साम्यं कियाश्च भेदो वर्तते, इति प्रदर्शनार्थमत्र थरद्रव्यसम्बन्धिविदुषां सिद्धान्तानामुद्धरणानि कानिचित् प्रस्तूयन्ते । नेमिरसनमहोदयरस्य विवेचनमित्य कृतम्-'कीदृशमासीदिदमीथरद्रव्यम् ? इत्यात्मिक्या विप्रतिपत्तयो विरोधा वा दृष्टिगोचरा अभवन्, यतो हीदं सिद्धमासीत्, यत् (१) ईथरद्रव्यं वायुभ्योऽपि तरलम् (२) लोहादपि सघनम् (३) सर्वत्राप्येकदृशम्, (४) अगुरुलघुत्वयुक्तमपि भारशून्यम्, (५) कश्मिश्चिदपि 'इलैक्ट्रान' (Electron) पार्वे पारदाख्याद्रव्यादपि भारवांश्चास्ति'।" डेन्टनमहोदयश्चापि एतद्विषये विलिखितम् यन्-~-'न्यूटनमहोदयेनाविष्कृतमीथरद्रव्य यद्यपि सघन विद्यते तथापि तस्मिन् सघर्ष विनैव स्वच्छन्दतया विहरन्ति पदार्था । अस्यात्यन्तकोमलत्वेऽपि न विभिन्नाकारा. भवितु शक्नुवन्ति, भ्रमणशीलत्वे चापि नास्य गतिर्दष्टिगोचरीभवति । पदार्थेष्वस्य प्रभावो भवत्येव परं नास्मिन् पदार्थप्रभाव' कथमपि सम्भवति, नास्य विभिन्ना' स्कन्धा सन्ति, अतएव न वयमस्य पृथक पृथगशान् अभिज्ञातुं शक्नुमः । स्थितानां नक्षत्राणामपेक्षयाम्य निष्क्रियत्वेऽपि, नक्षत्राणा परस्परापेक्ष्या गतिशीलत्वमेव स्वीकृत विद्यते ।
मैक्सबोर्नमहोदयश्चतद्विषयेऽभिहितम् यत्- 'शतवर्षपूर्व ईथरद्रव्यमेकमवलेह्यपदार्थवत्तरल स्वीकृतमासीत्, यच्चातिलघु , गुरुश्चापि स्यात्, येन तत् द्रुतगत्या परावर्तुं शक्नोतु। पर निकल्मनमहोदयस्य प्रयोगेनापेक्षावादसिद्धान्तेन चेद ज्ञात यत् 'ईथर'--द्रव्यमन्येभ्यो भौतिकेभ्यो द्रव्येभ्यो पृथग्वततेऽस्यापेक्षावश्यकता वा विद्युति, आकर्षणक्रियायाञ्चाप्यस्ति' ।" इत्थं बहुभि पाश्चात्यवैज्ञानिकै क्रमशः स्वीयेनानुसधानेनाम्य स्वरूपविषये विवेचन कृतम् । यत्र धर्मद्रव्यस्वरूपान् किञ्चित्साम्य, किचिद्वै भिन्दयञ्चाप्यासीत् । किन्त्वस्या शताव्द्या यद्वैज्ञानिकानामन्तिमो निर्णय सजात , तत्र यत्स्वरूपमेभिरस्य निश्चितम, तत्सर्वथा जैनदर्शने प्रतिपादितेन धर्मद्रव्येण साम्य भजते। तथाहि ---'नास्येदं तात्पर्य, यदीथरद्रव्य नास्ति ? अस्माकमस्यापेक्षास्त्येव · गतेऽस्मिन शताब्दे प्रायश स्वीकृतमिदम, यदीथर द्रव्यमेक पिण्डरूप, सघन, सामान्यद्रव्यवच्च गतिशीलमरत्येव, कदेय विचारधारावरुद्धेति कथन कठिन · परमद्यन्तनमिदं स्वीकरणम्-यदीथर द्रव्य न भौतिक द्रव्य, अभौतिकत्वाच्चास्य प्रकृतिरपि सर्वथा भिन्ना पिण्डत्व-घनत्वादि
७४
जनदर्शन आत्म-द्रव्यविवेचनम