________________
भौतिक गुणानां सर्वथाभावोऽप्यस्मिन् स्यात् परमस्य स्वीया एव नवीनाः, निर्णयात्मकाश्च गुणाः स्युः ईयरद्रव्यस्याभौतिकमुदधिरिति । "
ईथर - धर्मद्रव्ययो साम्यम्
अथ च प्रो० जी० आर० जैनमहोदयरीरद्रव्यस्य धर्मद्रव्यस्य च तुलनात्मके विवेचने सुस्पष्टतया प्रतिपादितं - 'यदिदं सिद्ध, यद्धर्मद्रव्यं ईथरद्रव्यञ्चतादृशमैक्यं भजेते, यत्ते द्वेऽप्यभौतिके, अपारमाणविके, अविभाज्ये, अखण्डे, आकाशवव्याप्ते, अरूपे, गतेरनिवार्यमाध्यमे, स्वस्थिते च स्त' ।"
सुप्रसिद्ध गणिताचार्यै प्रो० अलवर्टआइस्टीनमहोदयैरपि लोकालोकयोः मर्यादानिरूपणे स्वीकृतम् - 'यल्लोकस्तु परिमितोऽलोकश्चापरिमित । अतः लोकस्य परिमितत्वान्न काचन् द्रव्यशक्ति लोकाद्बहिर्गन्तु शक्नोति, तत्र तस्या शक्ते. ( या शक्ति गती सहायिका, तस्या ) अभावात् ।
नेनोपर्युक्तेन विवेचनेन परिज्ञायते, यदाधुनिकैवैज्ञानिकै यत् 'ईथरद्रव्यं' परिकल्पितं, तस्य च ये गुणा सन्ति, तेषां जैनै परिकल्पितेन धर्मद्रव्येण सर्वथा साम्य जातम, येन नेद कथनमनुचितं प्रतिभाति, धर्मद्रव्यमेव सम्प्रति 'ईथर' इतिनवीननाम्नाधुनिक वैज्ञानिक साक्षात्कृत, वस्तुतस्तु एतदेव बहुकालाद् भारतीय वाङ्मये जैनै 'धर्मद्रव्यम्' इतिनाम्ना ग्रहीतं विद्यते । अधर्मद्रव्यम् (Medium of rest )
यथा जीवपुद्गलानां गतावपेक्षितम् धर्मद्रव्यं तथैवैषां स्थितावप्यसाधारणकारणरूपेणाधर्मास्तिकायस्य कल्पना जैनदार्शनिकै कृता । धर्माधम द्वावेव सदृशौ विद्येने, यतश्च धर्म इवाधर्मोऽपि रूप-रस- गन्धस्पर्शशब्दादिरहितोऽमूर्तिक, निष्क्रिय उत्पाद - व्ययाभ्या परिणमनशीलोऽपि नित्यो विद्यते । परन्त्वनयो. कार्यभेद स्वाभाविकस्तद्यथा - धर्मो यथा जीवपुद्गलानां गतावसाधारणो हेतुस्तथैवायमधर्मोऽपि जीवपुद्गलाना स्थिताव साधारणकारणत्वात् स्थितिलक्षणोऽस्ति ।
जीवपुलाना स्थितावयमुदासीनो हेतु वर्तते, यथाहि - वृक्षच्छाया गच्छन्तं कञ्चन् पथिक न बला स्थापयति, अपितु स्थितेभ्य पथिकेभ्य आश्रयमेव ददाति यथा च पृथिवी गच्छत पशूत् न गमनान्निवारयति, अपितु तेषां स्थित आधारमेव प्रददाति तथैवायमधर्मोऽपि जीवान् पुद्गलाश्च न तु गमनान्निवारयति, नापि स्थित्यं प्रेरयत्यपितु तेषा स्थिती वृक्षच्छाया-पृथिवीवदेवोदासीन साहाय्य प्रकरोति ।
जैनदर्शने द्रव्यविवेचनम्
७५