________________
जायते । न कस्यचिदपि पृथकपदार्थस्यावश्यकतात्र वर्तते । कथमन्यैः स्वीकतानां पदार्थानामत्रान्तर्भावो भवितुं शक्नोतीत्येतदर्थमेवात्र विवेचनं क्रियते। चार्वाकास्तावत् 'पृथिव्यापस्तेजोवायस्तत्वानी'त्यभिदधन्ति। बौद्धदर्शनापेक्षया च तत्त्वविमर्श. विषयगतविषयिगतभेदेन द्विधा भवति । तत्र विषयगतापेक्षया 'असंस्कृतधर्मा', संस्कृतधर्माश्चेति द्वैविध्यम् जगतः धर्माणां स्वीकृतम् । असंस्कृतस्यार्थश्च-नित्यः, स्थायी, शुद्धः, सहेतुकश्चेति । इमे चासंस्कृतधर्मा. त्रिविधा ----१-प्रतिसख्या निरोधः, २-अप्रतिसंख्यानिरोधः, ३-आकाशश्चेति । अत्र प्रज्ञया राग-द्वेषादिवर्माणां पृथक् पृथक् विसंयोगः प्रतिसंख्यानिरोध." । प्रज्ञया विनैव यो निरोधो भवति स खल्वप्रतिसंख्यानिरोध.। अर्थात् स्वभावत एव सास्रवधर्माणां निरोधोप्रतिसंख्यानिरोधः इति। आकाशश्चावरणस्याभावः" । संस्कृतधर्मास्तु-रूप-चित्त-चैतसिकचित्तविप्रयुक्तश्चेति विभेदश्चतुर्धाः भवन्ति । अत्रावरोधक. पदार्थ रूपः । अस्य पञ्चेन्द्रियाः, तेषा पञ्चविधाः विषया., अविज्ञप्तिश्चेत्यैकादशभेदाः भवन्ति । इन्द्रियाणां तद्विषयाणाञ्चाघात-प्रतिघाताभ्यामुत्पन्नं चित्तमिति । मन -विज्ञानादीन्यस्य नामान्तराणि"। चित्तेन च सघनसम्बन्धस्थापकः मानसिकव्यापार एव चैतसिको धर्म उच्यते । अयं च षट्चत्वारिंशद्विध." । ये च धर्मा रूपधर्मेषु चित्तधर्मेषु वाऽपरिगणितास्ते 'चित्तविप्रयुक्ता.' इत्युच्यन्ते । एते च धर्मा. चतुर्दश विधा. भवन्तीति५ ।। विषयिगतदृष्ट्या च जगतो विभागस्त्रिविध -१-स्कन्धः, २-आयतनं, ३-धातुश्चेति । तत्र स्कन्धा. रूप-वेदना-संज्ञा-सस्कार-विज्ञानभेदेन पञ्चधा भवन्ति । मनःसहितानि पञ्चेन्द्रियाणि, तेषा विषयाश्चात्र ज्ञानाधारण स्वीकृता । अत एवैषा ज्ञानाधारत्वात् आयतनत्वमित्युक्तम् । अत्र मन आयतनातिरिक्तेप्वेकादशष्वायतनेषु प्रत्येकमेकैको धर्म', मन आयतने च चतुष्पष्टिधर्मास्तिष्ठन्ति । अतएव मन आयतन 'धर्मायतनमित्यप्यभिदधति बौद्धाः । बौद्ध-दर्शने धातुशब्दस्यार्थः स्वलक्षणोऽभिहित । वसुबन्धुना च तानि सूक्ष्मतत्त्वानि येषा समूहात् ज्ञानसन्ततेरुत्पादो भवति) ज्ञानावयवत्वेन धातुशब्द स्वीकृतम् । एते च ज्ञानावयवा (षड् इन्द्रियाणि, तेषा षड् विषया., तदुत्पन्नानि विज्ञानानि चेति) अष्टादशविधा भवन्ति । वैशेषिकाणि द्रव्याणि वैशेषिकैश्च द्रव्य-गुण-कर्म-सामान्य-विशेष-समवायाभावाश्चेत्येते सप्तपदार्थाः इसरदर्शनाभिमतव्याणामन्तर्भाव: