________________
स्वीकृताः। अत्रापि च पृथिवी-अप-तेजो-वायु-आकाश-काल-दिक्-आत्ममनांसीति नवद्रव्याणि स्वीकृतानि ।
मोमांसकद्रव्यारिण मीमांसकाना मतेऽपि न्याय-वैशेषिकवदेव जगतः सत्ता स्वीकृता विद्यते । एतेषु शबरमहोदय द्रव्य-गुण-कर्म-अवयवानामुल्लेखः स्वभाष्ये" कृतः । प्रभाकरमहोदयश्च द्रव्य-गुण-कर्म-सामान्य-समवाय-संख्या-शक्ति-सादृश्यानां पदार्थत्वेन स्वीकारः 'प्रकरणपञ्चिकाया विहितः । अत्रंषा लक्षणानि भेदाश्च प्राय वैशेषिकसदशा एव सन्ति । परञ्च कुमारिलमहोदयानुसारं भावाभावभेदाभ्या पदार्थो द्विविधः । तत्र भावश्चतुर्विध --द्रव्य-गुण-कर्म-सामान्यभेदेन । अभावोऽपि प्राग्-अत्यन्त-ध्वस-अन्योन्यभेदैश्चतुर्विधो भवतीति । अत्र द्रव्यमन्धकारशब्दाभ्या वैशेषिक स्वीकृत नवभिश्च सहकादशविधं सजायते। केचन च सुवर्णमपि पृथक् द्रव्यत्वेनाभिदधति"। किञ्चात्र मुरारिमिश्ररनयो (प्रभाकर-कुमारिलयो.) मताद्भिन्न केवलं 'ब्रह्म' एवैकः पदार्थ. स्वीकृत । व्यवहारे तु घट-घटत्व-अनियताश्रयप्रदेश विशेषादयश्चत्वार एव पदार्था. स्वीकृता । अतएवास्मात्परवर्तिभिराचार्य. ब्रह्मण एवैकपदार्थत्वेन स्वीकारा 'ब्रह्ममीमांसे'ति पदेनाभिहितम् तत् । सांख्यद्रव्याणि सांख्यदर्शने तु श्रीण्येव व्यक्त-अव्यक्त-ज्ञाख्यानि तत्त्वानि सन्ति । अत्राव्यक्तं, प्रकृति, प्रधान वेत्युच्यते । व्यक्तं त्रयोविशद्विध कार्यकारणपरम्परायाञ्च प्रकृते परिणामस्वरूपं भवति । ज्ञश्चैक एव चेतन पदार्थ पुरुषापराख्यश्चेति । अन्येषां द्रव्यारिण योगशास्त्रे च केवलमेकमात्र 'चित्तम्' एव तत्त्वं बुद्ध्यपरनाम्ना स्वीक्रियते । अस्यैव विविधानां स्वरूपाणा तत्र विवेचन विद्यते । अद्वैत (शांकर) वेदान्ते तु केवल 'ब्रह्म' 'आत्मा' वैकमात्र तत्त्वम् । शैवदर्शने च केवलं शिवतत्त्वमेवैकमात्र , परञ्च तदभिव्यक्ताना तत्त्वानामपेक्षया पञ्चविंशतिविधानि यानि साख्यदर्शने स्थूलभूतादय तत्त्वानि तान्येव सन्ति । केवलमयमेव विशेष , यदत्र पुरुष-प्रकृत्यो न साख्यवन्नित्यत्वं, स्वतंत्रत्व वा स्वीकृतमपितु मायापरनाम्नास्या अनित्यत्वं, परतन्त्रत्वञ्च स्वीकृतम् ।
जनदर्शन आत्म-द्रव्यविवेचनम्
८२