________________
विशिष्टाद्वैतदर्शने च चित्, अचित् ईश्वरश्चेति त्रीण्येव तत्त्वानि सन्ति । अत्र चित्तत्त्वं जीवात्मा, यश्च देहेन्द्रियमनः - प्राण- बुद्धिभ्य भिन्न एवास्ति । अयं चबद्ध - मुक्त - नित्यभेदेन त्रिविधः । अचित्तत्त्वं तु जडं विकारयुक्तं भवति । शुद्ध-मिश्र - शून्यसत्वभेदेनेदमपि त्रिविधम् । चिदचित्तत्त्वयोः आधारभूतमीश्वरतत्त्वमिति ।
द्वैताद्वैतदर्शने च जीवात्मा, परमात्मा प्रकृतिश्चेति त्रीणि तत्त्वानि । एषां परस्परं पृथक्त्वमस्ति । अत्र जीवात्मप्रकृत्योर्न परमात्मानं विना काचित् स्थितिः भवितु शक्नोति । किन्त्वेषां परमात्मन. समुद्रवीचिवदभेदोऽत एवेमेऽभेदवादित्वेनापि उच्यन्ते ।
पूर्णप्रज्ञ (द्वैत दर्शन ) दर्शनानुसारं दश पदार्थाः -- द्रव्य-गुण-कर्म-सामान्य- विशेष - विशिष्ट - अंशी - शक्ति - सादृश्य- अभावश्चेति । एषामवान्तरभेदेषु द्रव्यमेव केवलं विशद्वित्रं भवति । एवमन्यान्यपि विभिन्नभेदात्मकानि सन्तीति ।
एषां जनद्रव्येष्वन्तर्भावः
इत्थं भारतीयदर्शनेषु द्रव्याणां पदार्थाना वा विवेचनस्य स्वस्वबुद्ध्या प्रतिपादकात्मकत्वाद्वै भिन्न्य युज्यत एव । परञ्चैषा पदार्थानां द्रव्याणामन्तर्भावः जैन स्वीकृतेषु जीव- पुद्गल-धर्माधर्म- कालाकाशेषु कथं सञ्जायत इत्यस्त्यत्र विवेचनीयम् ।
अत्र जैनदृष्ट्या पुङ्गलस्य यत्स्वरूपं तत्र चार्वाकः स्वीकृतानां चतुर्णामपि भूतानामन्तर्भाव: ( रूप-रस- गन्ध-स्पर्शात्मकत्वात् पुद्गलस्य) सञ्जायते" । तथा च बौद्ध स्वीकृतानां पदार्थानामाकाशं विहायान्येषामन्तर्भावो जीव- पुद्गलयोरेव भवति । यतश्च तत्र मन. – चित्तेन्द्रियादीना जैनदर्शनदृष्ट्या द्रव्य-भावात्मकत्वात् द्रव्यमनश्चित्तेन्द्रियादीना पुद्गले, भावमनश्चित्तेन्द्रियाणाञ्च भावात्मकत्वात् जीवेऽन्तर्भावो" जायते ।
यच्च वेदान्तदर्शने (तस्य सर्वासु शाखासु च ) केवलं ब्रह्म एव तत्वतः स्वीकृतम्, यत्रकुत्रचिच्च मायादीनां वा स्वीकार:, तेषामपि सर्वेषां जीवे पुद्गले वान्तर्भावः सारल्येन सञ्जायते । केवलं वैशेषिकैस्तदनु च मीमांसकैरपि यानि विविधानि तत्त्वानि द्रव्याणि च स्वीकृतानि वर्तन्ते तेषामत्र विशेषेणोपस्थानम् क्रियते, यत्कथं तेषामन्तर्भावो कतु ं शक्यते ।
इतरवर्शनाभिमतद्रव्याणामन्तर्भावः
८३