________________
वैशेषिकाः खलु पृथिव्यादीनि नवद्रव्याणि स्वीकुर्वन्ति । एष्वाधानि चत्वारि द्रव्याणि रूपरसगन्धस्पर्शयुक्तान्येव सत्यतः रूप-रस-गन्ध-स्पर्शयुक्तानामेषां जैनदार्शनिके पुद्गले एतत्सामान्यलक्षणयुक्तत्वादन्तर्भावो जायते । दिशस्त्वाकाशेऽन्तर्भाव', आकाशस्य कालस्यात्मनश्च जनदर्शनेऽपि स्वातत्र्येण द्रव्यत्वमस्ति । किञ्च, मनस्तु जैनदर्शनदृष्ट्या जीव-पुद्गलपर्यायत्वान्त पृथग्द्रव्यात्मकत्वं भजते । तद्यथा--द्रव्यमन', भावमनश्चेति मनसो द्वैविध्यम् । आत्मनो विचार-सरण्या सहयोगि, पुद्गलपरमाणना च स्कन्धरूपं द्रव्यमन. । आत्मनो हिताहितयोविमर्श यदुपकरणरूपं तद्रव्यमन इति। शरीरस्य यस्मिन्नशे आत्मन उपयोगो भवति, तदा तत्र स्थिताः परमाणवोऽपि मन परिणता भवन्ति । विचारशक्तिस्त्वात्मन्येवास्ति, अत. भावमनस आत्मरूपत्वमेव । यथा खलु भावेन्द्रियाण्यात्मन एव शक्तिविशेषरूपाणि, तद्वभावमनोऽपि नोइन्द्रियावरणकर्मण क्षयोपशमात्प्रकट्यमानाऽऽत्मन एवैका विशेषशक्ति , न तद्व्यतिरिक्त मनोद्रव्यं वर्तते । यद्यपीन्द्रियाणा मनसः सहयोगाभावे स्वस्वविषयग्रहणासमर्थत्वमेवास्ति, किन्तु मनस्त्वेकाक्येव गुणदोषविचारादिव्यापारसमर्थत्वात् निश्चितविषयत्वाच्च सर्वविषयकमेव भवति । वैशेषिका द्रव्यातिरिक्ताः षड्पदार्थाः वैशेषिक द्रव्यातिरिक्ताः पइपदार्थाः-'गुण-कर्म-सामान्य-विशेप-समवायअभावा.' अन्येऽपि स्वीकृता । अत्र 'गुणोऽय, गुणोऽय', इत्यात्मकप्रत्ययत्वाद् गुणोऽप्येक. पदार्थ । कर्म-कति प्रत्ययत्वाच्च कर्माप्येक: स्वतत्रपदार्थ. । अनुगताकारप्रत्ययात्मकाः परापररूपाश्चानेके सामान्याः । नित्येषु परमाणषु, शुद्धात्मषु, मुक्तात्मना मनःसु च परस्पर विलक्षणतावगमार्थ प्रत्येकेष्वपि नित्यद्रव्येष्वेकैक विशेषपदार्थ स्वीकृत । अपृथसिद्धाना पदार्थाना सम्बन्धाय समवाय आवश्यक । कार्योत्पत्तेः प्राग्वस्तुनो भाव प्रागभावः, उत्सत्तेरनन्तरं भावी विनाशश्च-प्रध्वसाभाव , पदार्थेषु परस्परमन्यस्वरूपस्याभावोऽन्योयाभाव , कालिकस्य च मंसर्गस्य परस्परमवरोधकोऽत्यन्ताभाव. । इत्थमत्र यावन्त. प्रत्यया. पदार्थेषु प्राप्यन्ते, तावन्त एव पदार्थाः वैशेषिक. स्वीकृता । अतएव वैशेषिकेभ्यः 'सम्प्रत्ययोपाध्याय' पदवी यथार्थमेव प्रदत्ता । गुणादीनामपृथक्पदार्थत्वम् अत्र जैनदर्शनदृष्ट्या विचारे कृते सति ज्ञायते, यद्रव्यस्वरूपाबहिर्न गुणा
जनदर्शन आत्म-द्रव्यविवेचनम्