________________
दोनां काचित्सत्ता विद्यते । यतो हि जैनदर्शनदृष्ट्या - द्रव्यं गुणपर्ययवद्भवति । गुण - क्रिया- सामान्यादयस्तु द्रव्यपर्यायरूपा एव भवन्ति, यतो हिज्ञानादिगुणानामात्मनः पृथक्, रूपादिगुणानाञ्च पुद्गलेभ्यः पृथक् न काचित्सत्तावलोक्यते, युक्तिभिः सिद्ध्यति वा । अथ च यदा वैशेषिकैरपि गुणगुणिनो, क्रिया- क्रियावतोः, सामान्य- तद्वतोः, विशेष- नित्ययोश्चायुतसिद्धत्वं स्वीक्रियते, तदा गुणादीन् परित्यज्य द्रव्यस्य कथं पृथक् सत्तावतिष्ठेत ? द्रव्येभ्यश्च ऋते निराधाराः गुणादयोऽपि कुत्र स्युः ? अतएवानयोः कथञ्चितादात्म्यसम्बन्धात्, 'गुणसन्द्रावो द्रव्य मिति' पातञ्जलसिद्धान्तानुसारमपि अपृथक्त्व स्वीकरणीयम् । एतच्च स्वीकृते न गुणाना पृथक्पदार्थत्वं समर्थनीयं “ स्यादिति ।
क्रियाया पृथक्त्वम्
यथैकमेव द्रव्यमनेकगुणाना पिण्डरूपं भवति, तथैव सक्रियेषु द्रव्येषु तद्भाविन्य: क्रिया अपि तत्पर्यायरूपा एव तिष्ठन्ति न तु स्वतत्रा पृथसिद्धाः, यतश्च क्रिया कर्माणि वा न क्रियावतो. पृथगस्तित्वशालिनो कुत्राप्यवलोक्यन्ते ।
सामान्यस्यापृथक्त्वम्
एवमेव सामान्यमपि पृथिवीत्वादिभिन्नद्रव्य वर्तिसदृशपरिणामरूपम् । न किञ्चिदेक, नित्य, व्यापकं वा सामान्यम् मुक्तापिहितसूत्रवद्द्रव्येष्वलोक्यतेऽपितु येषु द्रव्येषु येन रूपेण सादृश्यं प्रतीयते, तदेव द्रव्याणां सामान्यत्वेन स्वीक्रियते । तच्च सामान्य न केवल बुद्धिकल्पितमपितु सारश्यत्वावस्तुनिष्ठम्, वस्तुवदेवोत्पादव्ययशाली च वर्तते इति ।
विशेषस्यापृथक्त्वम्
यथा खलु सर्वेषामपि द्रव्याणां पृथक्पृथक्स्वतंत्रास्तित्वमस्ति तथा तत्र स्वाfaradast विलक्षणप्रत्ययोऽपि भवितुमर्हति । यथा खलु विशिष्टाना पदार्थाना स्वरूपेणैव सिद्धत्वात् न तत्र विलक्षणप्रत्ययोत्पादकाः अन्येऽपि विशेषाः आवश्यका भवन्ति तथैवात्र द्रव्याणा स्वस्वरूपेणैव विलक्षणप्रत्यये स्वीकृते सति न विशेषाख्यस्य कस्यचित्पदार्थस्य स्वतत्रावश्यकता प्रतिभातीति ।
समवायस्यापृथक्त्वम्
अवयवावयविनोः, गुण-गुणिनो:, क्रिया- तवतोश्च यः समवायसम्बन्धो जायते
इतर दर्शनाभिमतद्रव्याणामन्तर्भावः
८५