________________
तत्तयोरेव पदार्थयोः पर्यायरूपो भवति । यथा ज्ञानस्यात्मनि समवायसम्बन्धः । अत्रायमभिप्रायो-यज् ज्ञानं, तस्य समवायसम्बन्धश्चोभावपि ज्ञानस्यैव सम्पत्तिरूपी स्तः, न तद्भिन्ना ज्ञानस्य तत्समवायसम्बन्धस्य वा काचन् स्वतंत्रा सत्ता विद्यते । द्वयोः पदार्थयोर्यः कश्चनापि सम्बन्धः सस्थापितो भवति, सः स्वसम्बन्धिनोः पर्याययोविशेषरूप एव भवितु शक्नोति । यथा द्वयोर्युतसिद्धयोः पदार्थयोः संयोगः प्रत्येकमवतिष्ठते-एकस्यान्यस्मिन्, अन्यस्य चापरस्मिन् । अर्थात् संयोगः प्रत्येकनिष्ठोऽपि द्वाभ्यामेवाभिव्यक्तो भवति । इत्थमत्र न समवायस्य पृथक् सत्ता आवश्यिकी । प्रभावस्यापृथक्त्वम् कस्यचिदपि वस्तुनो सत्ताया अभाव तस्याभाव इत्युच्यते । स च प्राक-प्रध्वंसअत्यन्त-अन्योऽन्यभेदाच्चतुर्विधो भवति । अत्र जैनदर्शनदृष्ट्या प्रत्येकस्यापि द्रव्यस्य पूर्वपर्यायस्तस्य प्रागभावरूपः, उत्तरपर्यायश्च प्रऽवसाभावरूप एव भवति । प्रतिनियतस्वस्वरूपश्चान्योऽन्याभावः, अससर्गीयरूपश्चात्यन्ताभावो भवति । इत्थमभावो भावान्तररूप एव जैनदर्शने स्वीकृतो विद्यते । न च सः स्वतत्र कश्चन् पदार्थ. । यर्थकस्य द्रव्यस्य स्वरूपस्थितिरेव पररूपस्याभावोऽथ चैकस्यैव द्रव्यस्य द्वयो पृथक्पर्याययोः परस्परमभाव-व्यवहार इतरेतराभावस्तथा च द्वयो व्ययो. परस्परमभावोऽत्यन्ताभाव. इत्युच्यते । एषा विस्तृत विवेचन पूर्वमेव मया कृतम् । अतोऽभावस्यापि न पृथक्पदार्थरूपेण काचन आवश्यकता द्रव्य-व्यवस्थाया प्रतिभाति । इत्थ गुणादयो न पृथक्सत्ताका. स्वतत्रपदार्था , अपितु द्रव्यपर्यायरूपा एव, भिन्नप्रत्ययाधारेण पदार्थव्यवस्थास्वीकारे पदार्थानामानन्त्यमेव सम्भाव्यतेऽतो नेद समुचितम् । अवयवावयविनोरपृथक्त्वम् किञ्च, अवयविनं द्रव्यमवयवेभ्यः पृथक्स्वीकरणमपि प्रतीतिविरुद्धं, यथाहितन्तुरूपावयवा एव निर्धारिताकारपरिणता. पटसज्ञाकावयविरूपा भवन्ति । पटनामको कश्चनावयवी समवायसम्बन्धेनावयवेषु तन्तुषु स्यादिति नानुभवगम्य, यतो हि-यथा पटाख्यस्यावयविनो सत्ता तन्तु रूपेभ्योऽवयवेभ्यः पृथक न कदापि कुत्रापि प्रतीयते, तथैव स्कन्धाख्यस्यावयविनः पर्यायात्मकत्वेनैव प्रतीतिर्न तु स्वतत्रण द्रव्यरूपेण । तद्यथा-यमंत्परमाणुभिर्घटोत्पादस्ते परमाणव. स्वत एव घटाकारं ग्रह्णन्ति । अतस्तेषा परमाणूना सामुदायिक्यभिव्यक्ति.-'घट' इति भवति, न तु घटोऽववित्वेनान्यत
जैनदर्शन आरम तस्य विवेचनम्