________________
आगच्छति, अपितु मृत्परमाणू नामाकार-पर्याय- प्रकारेषु क्रमिकैः परिणाम रेव घटकार्याणि जायन्ते । इत्थञ्च घटव्यवहारस्य सङ्गतिरपि जायते" ।
अस्यायमेवाभिप्रायः - यत्परमाणुः स्वतंत्रास्तित्व- परिणामयुक्तोऽपि सामूहिके परिणामे स्वीयं परिणमनं विलीयते । अथ चेयं परिणमनसन्ततिः यावदवयवभूतेषु परमाणुषु प्रचलिता तिष्ठति तावत्तस्य पदार्थस्य स्थितिरपि सदृशीतिष्ठति । किन्तु यदा परमाणुभिः पूर्वोक्त्या सामुदायिकसन्तत्या सहयोग: प्रारभ्यते, तदा सामूहिकाभिव्यक्तौ न्यूनत्व-शिथिलत्व- जीर्णत्वादिरूपैर्वैविध्यं संदृश्यते । अतएव, मूलतो गुणपर्यायाणा य आधारभूतस्तिष्ठति स एव द्रव्यत्वभाग्भवति, तस्यैव सत्ता द्रव्यरूपेण स्वीकरणीया" । विभिन्नद्रव्याणाञ्च ये सदृश - विसदृशपरिणामा, न ते स्वातंत्र्येण द्रव्यसज्ञाभाग्भवन्तीति ।
यैश्च परमाणुभिर्घटो घटते, तेषु परमाणुषु निरंशावयविनोर्घटस्य स्वीकारेऽनेके दोषा समायान्ति । यथा हि निरशोऽवयवी स्वीयेष्ववयवेषु किमेकांशेन तिष्ठति, सर्वात्मना वा ? यद्येकदेशेन तदा यावन्तोऽवयवास्तावन्त एवावयविनो प्रदेशा स्वीकरणीया । सर्वात्मना चेत्तर्हि - अवयवसंख्याका एवाव
विनोऽस्युः । यद्यवयवि निरंशस्तदेकस्मिन्नवयवे क्रियात्वे सति सम्पूर्णेऽप्यवयविनि क्रिया स्वीकर्तव्या, अवयविनोनिरंशत्वात् । यद्यवयवि पृथक् स्वीक्रियेत, तहि नियतभारात्मकै. सूत्र : निर्मित वस्त्रमवयविभारयुक्तं भाराविकत्व भजेत् । परं नैतादृश. दृश्यते, तथा च वस्त्रस्यैकांशस्य विदीर्णे सति पुनस्तावन्मात्रिकेषु परमाणुषु नवीनस्यान्यस्यावयविन उत्पत्ति स्वीकृते सति कल्पनागौरवः, प्रतीतिबाधा चोत्पत्स्यते, यतो हि प्रतिक्षणमेव वस्त्रस्यापचय उपचयो वा जायते, तदा च प्रतिक्षणमेवावयविनो विनाशस्तदनन्तरञ्चान्यस्योत्पादोऽप्यवश्य स्वीकरणीय स्यात् । अतो नावयवेभ्यः पृथगवयविनो सत्ता विद्यते इति ।
अथ च ये - परमाणव स्थूलघटादिरूपेण परिणतास्ते स्वीयां परमाण्ववस्थामेव परित्यज्य घटावस्थामधिगता । तेषामियं घटस्कन्धरूपावस्था न कस्यचिन्नवीनस्य द्रव्यस्यास्त्यपितु तेषा परमाणूनामेव समुदायात्मिकावस्थोत्पद्यते । यद्यत्र परमाणवः सर्वथा स्कन्धावस्थातः पृथक्पा एव स्वीक्रियन्ते, तदैकः परमाणुः यथा न चक्षुषावलोक्यते, तथैव सहस्रानामपि परमाणूनां सामीप्यातिशयेऽपीन्द्रियगोचरत्वमसिद्धं स्यात् । स्कन्धावस्थायां तु तेषामरयतां
परित्यज्य दृश्यता स्वीकरणीयैव ।
इतर दर्शनाभिमतद्रव्याणामन्तर्भावः
८७