________________
कस्यचिदपि वस्तुनो दृढत्वं शिथिलत्वं वा तद्घटकावयवानां दृढ-शिषिलबन्धाश्रितं भवति । तद्यथा-लौहस्कन्धावस्था प्राप्य त एव परमाणवो दृढाः, चिरस्थायिनश्च भवितु शक्नुवन्ति, ये खलु तूलावस्थाया मृद्वचिरस्थायिनश्च जायन्ते । इद सर्वमपि तेषा परमाणू नां बन्धप्रकारहेतुकमेव भवतीति । यद्यपि पुद्गलपरमाणुषु सर्वा अपि शक्तयो विद्यन्ते, परं विभिन्नेषु स्कन्धेषु तासां न्यूनाधिकरूपेणानेकविधो विकासः सञ्जायते । यथाहि-घटे जलग्रहणशक्तिः , न तु पटे, परमाणवस्तु द्वयोरेवैकशाः सन्ति । अथ चेमे एव परमाणव एकत्र (चन्दनावस्थाया) शीतलत्व भजन्तस्तिष्ठन्ति, यदा ह्यग्निनिमित्तेनान्यत्राग्निसदृशा सम्भूय काष्ठाद्यग्निरिव दाहकत्वमप्युपगच्छन्ति । इत्थं पुद्गलपरमाणनां न्यूनाधिकसम्बन्ध रुत्पद्यमानाना परिणामाना न काचन संख्या, नाप्याकारप्रकाराः निर्धारिता सन्ति।
कस्यचिदपि पदार्थस्यैकरूपत्वं, कालान्तरस्थायित्वञ्च तत्प्रतिसमयभाविपरिणामाधारभूत भवति। यावत्कालं तद्घटकपरमाणना सदृशपरिणामस्तावदेव तद्वस्त्वेकश स्यात्, यदा च केषुचिदेव परमाणुष विसदृशपरिणाम. प्रारभ्यते, तस्मात्कालादेव वस्तुन आकारप्रकारेपु वलक्षण्यं जायमान दृश्येत । अद्यन्तनेन विज्ञानेनापि विगलनशीलं 'अलूकद्रव्य' (Potato-शाकविशेष, राष्ट्रभाषाया-आलू ) बद्धवायौ (Air-Tite) प्रकोप्ठे सस्थाप्य शीघ्रविगलनात्परिरक्षितम् । अस्यायमेवाभिप्रायो-यत्परमाणू ना न तु सर्वथा नित्यत्वमपरिवर्तनशीलत्वं, नापि स्वतत्रपरिणमनशीलत्व वा स्वीकरणीयमन्यथा सदृशपर्यायाणा विकास एवासम्भव. स्यात् इति । द्रव्याद् गुणपर्यायाणामपृथक्त्वम् सामान्येन द्रव्यमखण्डमेव भवति, किन्तु सहभाविनामनेकगुणानामभिन्नआधारोऽपि भवति, अतस्तस्मिन् गुणकृतो विभागोऽपि सम्भाव्यते" । यर्थक. पुद्गलपरमाणु. रूपरसगन्धस्पर्शाद्यनेकगुणाना युगपदेवाधारभूतस्तिष्ठति । प्रत्येकमपि द्रव्ये प्रतिक्षण परिणामयुक्तेऽपि द्रव्येण कञ्चित्तादात्म्यसम्बन्धानि विद्यतेऽतएव द्रव्या गुणस्य पृथक्करणाशवयत्वात् स तदभिन्न."। सज्ञा-सख्या-प्रयोजनादिभेदैम्तु तस्य पृथग्निरूपणक्षमत्वात्तद्भिन्नोऽपि भवति । अनया दृष्ट्या च द्रव्ये यावन्तो गुणास्तावन्त एव प्रतिक्षणिका उत्पादव्यया.। प्रत्येकमपि गुणो स्त्रीय पूर्वपर्यायं परित्यज्योत्तरपर्यायमधिगच्छति, परञ्च तेषा पर्यायाणामपृथक्त्वाद् द्रव्यसत्तयैकत्वम् । सूक्ष्मेक्षयाव
जनवर्शन आत्म-द्रध्यविवेचनम्
८८