________________
लोकने सुमायते यत् गुणपर्यायव्यतिरिक्तं द्रव्यसत्ताभावाद् गुणपर्यायाणामेव द्रव्यत्त्वम् । अथ च पर्यायाणां परिणमनशीलत्वेऽपि अविच्छिन्नतायाः नियामको योऽशः, स एव गुण इति कथ्यते ।। यदा च पुद्गलाणौ रूपो स्वीयं नवीन पर्यायं ग्रहणाति, तदा रस-गन्ध-स्पर्शादयोऽपि परिवर्तिता. भवन्ति, इत्थ प्रत्येकमपि द्रव्ये प्रतिसमयं गुणकतानेका उत्पादव्ययाः जायन्ते, ये च गुणस्य सम्पत्ति (Property)-स्वरूपाः सन्ति । किञ्च, रूप-रस-गन्ध-स्पर्शादीना गुणाना न परमाणो काचन् सत्ता विद्यते, इत्यप्यन्यतरः पक्ष । परमाणुस्तु एतादृशोऽविभागिपदार्थ., यच्चक्ष रादीन्द्रियैरपि तस्मिन् रूपादीना न प्रतीतिर्भवतीति । यद्यप्ययं सर्वसिद्ध सिद्धान्त , यदिन्द्रियाणि तु गुणग्राहकानि एव भवन्ति, न तु तदुत्पादकानि । यथा कञ्चनाम्रफलं दृष्ट्वैव तस्मिन् रस-गन्ध-स्पर्शादीनामभावो न प्रतिपादयितु शक्यते, यतश्चानाघ्रातेऽपि गन्धोऽनास्वादितेऽपि रसोऽस्पृष्टेऽपि स्पर्शस्तस्मिन् विद्यत एवेति दैनिकानुभवप्रतीति । एवमेवात्मन्यपि ज्ञान-सुख-शक्त्याद्यनेकगुणाना युगपदेव सद्भाव. प्राप्यते । एषा प्रतिक्षण परिवर्तितेऽप्यात्मनाविच्छिन्नत्व तिष्ठति । अतएव गुणा. सहभाविनोऽन्वयिनश्च । पर्यायाश्च क्रमभुवो व्यतिरेकिणश्च सन्तो गुणाना विकारा (परिणामा.) एव भवन्ति । एकस्मिन् चिद्रव्ये यस्मिन् क्षणे ज्ञानपर्यायस्तस्मिन्नेव क्षणे दर्शनसुखाद्यनेकगुणा अपि स्व-स्वपर्याय परिणमन्ति ।
यद्यप्येषु गुणेष्वेकश्चतन्य एवानुस्यूतो भवति, परं स चिद्गुण. स्वयं निर्गुणो न गुणरूपेण प्रतिभासते, यतश्च गुणाना स्वीया स्थितिः पृथगेव भवति । इमे एकात्मका गुणपर्याया एव द्रव्याभिधानाः । नभ्यो पृथक् कश्चनापि स्वतत्र. पदार्थो विद्यतेऽपित्वेषां गुणपर्यायाणा तादात्म्यरूप एव भवति । इत्थं प्रत्येकमपि चेतनेऽचेतने वा पदार्थे गुणपरिणामोत्पन्ना अनेके उत्पादव्यया. स्वाभाविका , द्रव्य च तेष्वखण्डसत्तात्वेन तिष्ठति । गुणस्तु प्रतिक्षण येन केन वा पर्यायेण परिणमत्येव । एतादृशाश्चानेके गुणा अनन्तकालं यावद्यथा अखण्डसत्तयानुस्यूता भवन्तस्तिष्ठन्ति, सा सत्तैव 'द्रव्य'मित्युच्यते ।
गुरगस्य द्रव्यत्वखण्डनम् द्रव्यस्यार्थः-क्रमभाविपर्यायाणामधिगमनम् । इत्थं गुणस्याप्यनेनार्थेन द्रव्यत्वं
खरदर्शनाभिमताब्याणामतर्भाव:
८