________________
सम्पद्यते, क्रमभाविपर्यायेष्वनुस्यूतत्वात् । किन्त्विदं द्रव्यत्वमुपचारत एवं ने तु प्रामुख्येन सिध्यति । यद्यपि द्रव्येण तादात्म्यत्वादपि गुणस्य द्रव्यत्वमुपपद्यते, परमत्र द्रव्यस्योत्पाद-व्यय- ध्रौव्यात्मकत्वात् ( न तु केवलमुत्पाद-व्ययत्वात्) न गुणानां परिपूर्णद्रव्यत्वम् । यतो हीमे गुणाः वस्तुतः द्रव्यांशा एव सन्ति, न तु द्रव्याणीति ।
इत्थं गुणपर्यायेष्वविच्छिन्न तादात्म्यस्थापकं, स्वीयेषु प्रत्येकमपि प्रदेशेषु सम्पूर्णगुसत्ताया आधारभूतञ्च यत्तदेव द्रव्यमित्युच्यते " । स्वीयेषु गुणेषु पर्यायेषु च याश तादात्म्यमनेन संस्थाप्यते, तादृशं तादात्म्यं न पृथक्सिद्धोद्रव्यगुणयोर्गुणपर्याययोर्वा भवितुं शक्यते इति ।
'स्याद्वादस्तदीयं व्यवस्था नियामकत्वञ्च'
स्याद्वादो जैनदर्शनस्य हृदयम्, भारतीयदर्शनानाञ्च संयोजकमेकं सूत्रमतएव जैन दर्शनीय चिन्तनधारायामस्य विशिष्टं स्थान विद्यते । अस्य बीजानि सहस्राब्देभ्य प्रागेव जैनागमेषूत्पाद - व्यय - ध्रौव्यरूपेणास्तिनास्त्यवक्तव्य रूपेण, द्रव्य-गुण- पर्याय-रूपेण, सप्तनयादिरूपेण च प्रकीर्णानि सन्ति । समन्तभद्रसिद्धसेनादिर्जन दार्शनिकै सप्तभङ्गादिरूपेण तार्किकपद्धत्या तस्मै व्यवस्थितमेकं स्वरूप प्रदत्तम् । ततश्चाने केराचार्यैरेनमुद्दिश्य सुबहुवाड्मयस्य रचना कृता, याद्यापि स्याद्वादस्य गौरवं प्रकटयस्तिष्ठति । विगतपञ्चदशशताब्दीतः स्याद्वादो दार्शनिकजगत एक. सजीव. पक्षो वर्तते ।
साम्प्रत क स्याद्वाद ? का च तत्परिभाषा ? जीवन-व्यापाराय च तस्योपयोगोऽपि कीदृश. ? इत्यादिप्रश्नानामेवात्र संक्षेपतः पर्यालोचन क्रियते ।
स्याद्वादस्यार्थः
'परस्पर विरुद्धधर्माणा विवक्षावशान्मुख्यगौणत्वेन समन्वयः स्याद्वादः' अयमेव स्याद्वादस्यार्थः " । यथैकस्य न्यायाधीशस्य सूक्ष्मेक्षया निष्पक्षनिर्णय रूपं महत्वपूर्ण कार्य, तथैव विभिन्नाना विचाराणा समन्वयार्थ तदेव कार्य स्याद्वादस्य विद्यते ।
स्याद्वादपदे 'स्यात्' 'वाद' पदयोस्संयोग । तत्र स्याच्छब्दस्यार्थ : 'अपेक्षा' 'दृष्टि' र्वा, वादशब्दस्यार्थ - 'सिद्धान्तः' ' मन्तव्यो' वास्ति । द्वयोरपि शब्दयो. समुदितोऽर्थः 'सापेक्षसिद्धान्त', सः सिद्धान्तः यत्रापेक्षावश्यिकी भवति ।
जैनदर्शन आत्म- द्रव्यविवेचनम्र
६०