________________
'अनेकान्तवादः', 'अपेक्षावादः', 'कथञ्चिद्वादः' 'स्याद्वादश्चे'त्यादयोऽस्य नामान्तराणि । अत्रानेकान्तवादे स्याद्वादे चायमेव सूक्ष्मो भेदो यदनेकान्तो वाच्योsनेकधर्मात्मकोऽर्थः, स्याद्वादस्तु वाचकः, तदभिव्यञ्जिका भाषापद्धतिः । स्याद्वादस्य परिभाषा अस्य परिभाषा स्याद्वादविज्ञराचार्यरित्थं कृता विद्यते स्वापरेषु विचारेषु, मतेषु, वचनेषु, कार्येषु च तन्मूलकापेक्षानामवधानं 'स्याद्वादः'। एतामेव परिभाषां स्पष्टयन्नमृतचन्द्राचार्यरभिहितम्
'एकेनाकर्षन्ती श्लथयन्ती वस्तुतत्त्वमितरेण । अन्तेन जयति जैनी नीतिर्मन्यान-नेत्रमिव गोपी॥
अष्टसहस्त्र्यामीदृशी परिभाषा विद्यते-'प्रत्यक्षादिप्रमाणाविरुद्धानेकात्मकवस्तुप्रतिपादकः श्रुतस्कन्धात्मको स्याद्वाद' इति ।
स्याद्वारे सप्तभङ्गाः अस्य स्याद्वादस्यानेकान्तवादस्य वाभिव्यञ्जनाय जैनाचार्य रेका पद्धतिनिर्धारिता विद्यते, सा पद्धतिरेव 'सप्तभङ्गो'तिपदेन व्यवहियते । सप्तभङ्गेः परिभाषा स्याद्वादविज्ञ रेकस्वरेण्यमेव स्वीक्रियते-'प्रश्नवशादेकत्र वस्तुन्यविरोधेन विधि-प्रतिषेधकल्पना सप्तभङ्गी'' 'सप्तानां भङ्गानां समाहारः सप्तभङ्गी' इति वा। यतश्चैकत्रवस्तुनि सप्तविधाः संशया जायन्ते, वस्तुनि सप्तधर्माणां प्रमाणतः सिद्धत्वात् । अतः सप्तविधसंशयोत्पन्नानां प्रश्नानां तदपेक्षया प्रतिपादनात् सप्तविधोत्तरवाक्याना समाहार एव सप्तभङ्गीपदेनोच्यते। अत्रष सप्तविधेष्वपि वाक्येषु विधि-प्रतिषेधार्थमेवकारप्रयोग आवश्यकः । तथा च प्रत्येकस्यापि भङ्गस्य कञ्चित्-अपेक्षात्मकत्वात्, पूर्व 'स्यात्' शब्दस्य प्रयोगस्यावश्यकता स्यादन्यथा घटः पटोऽपि स्यादिति । ते च सप्तभङ्गाः यथा
(१) स्यादस्त्येव घटः ।
(२) स्यान्नास्त्येव घटः। स्थाद्वावस्तदीयं व्यवस्थानियामकत्वञ्च