________________
(३) स्यादस्ति - नास्त्येव घटः । ( ४ ) स्यादवक्तव्य एव घट. । (५) स्यादस्त्यवक्तव्य एव घटः ।
(६) स्यान्नास्त्यवक्तव्य एव घटः । (७) स्यादस्ति नास्त्यवक्तव्य एव घट' ।
are प्रथमे भगे घट. स्वद्रव्य क्षेत्र काल- भावापेक्षया 'घट' एवास्ति, न तु पट' । द्वितीये च भङ्गे 'घट' परद्रव्यक्षेत्रकालभावापेक्षया (पटद्रव्य-क्षेत्रकाल- भावापेक्षया) नास्त्येवेत्युक्तम् । अथ च तृतीये भङ्गे घटः स्वद्रव्यक्षेत्र काल-भावापेक्षया तु विद्यत एव, किन्तु पटद्रव्य-क्षेत्र काल- भावापेक्षया (परद्रव्य-क्षेत्र काल- भावापेक्षया) तु नास्त्येव, अत द्वयोरपि द्रव्ययोर्क्रमश एकत्र विवेचनेऽयं भङ्ग समुपजायते । किन्तु द्वयोरपि स्वपरद्रव्ययोरेककालावच्छेदेन विवेचनाशक्यत्वात् चतुर्थो भङ्ग सिद्ध्येत । मूलतस्तु-अस्ति नास्तिअवक्तव्यश्ते श्रय एव भङ्गा सन्ति । शेषाश्चैषां सम्मिश्रणादेव सिध्यन्ति । घटस्य स्व- द्रव्य-क्षेत्र काल-भावापेक्षया, तथा च घटपटयोरेककालावच्छेदपेक्षया वक्तुमशक्यत्वान् पञ्चमोऽपि भङ्ग सञ्जायते । तथा च घटे पटरूपपरद्रव्यस्य द्रव्यभावापेक्षा घटपटयोश्चक कालावच्छेदकापेक्षया च वक्तुमशक्यात् 'नास्त्यवक्तव्यमिति पष्ठो भङ्ग तथा च सप्तमो भङ्ग - क्रमश घट-पटयोविवेचनात् तथा च द्वयोरेकदैव विवेचनाशक्यत्वात् सिध्यति ।
स्याद्वादे एवकारप्रयोगः
अत्र 'एव 'कारस्य प्रयोगो घटे घटत्वस्य ज्ञापनार्थमेव प्रयुक्तो विद्यते । यद्यवकारस्य प्रयोग आवश्यक न स्यात्तदा घटो यथा स्व द्रव्य क्षेत्र कालभावापेक्षयास्ति, तथैव परद्रव्य-क्षेत्र - काल-भावापेक्षयापि सत्वात् पटोपि स्यादतोऽव्यवस्थानिवारणायात्र वकारप्रयोग आवश्यक ।
स्याद्वादे स्याच्छब्दप्रयोगः
किञ्चात्र य स्याच्छब्दस्य प्रयोग स खलु वाक्येष्वनेकान्तद्योतनार्थमेव " प्रयुज्यते । येनैकस्या कस्याश्चिदपि विवक्षाया बोधो भवति, वस्तुनोऽनन्तधर्मात्मकत्वात्तत्रानन्ता विवक्षा अपि सर्वदा तिष्ठन्ति । अतस्तत्र न काचिदन्या द्योत्यार्थभिन्नापेक्षावगम्येत इत्येतदर्थ स्यात्कार प्रयुज्यते ।
ܕ
सुस्पष्टत्वं सहजगम्यत्वञ्च स्याद्वादस्य
इद तु मया पूर्वमेवोक्त, यदयं स्याद्वादसिद्धान्त. भारतीयदर्शनानां संयोजक
२
जनदर्शन आत्म- द्रव्यविवेचनम्