________________
मेर्क सूत्र विद्यते । अस्यायमभिप्रायः यद्भारतीयैस्तु स्याद्वादस्य सापेक्षत्वं सहजता स्वीकृतमेव, किन्तु पाश्चात्यैरपि विद्वद्भिरस्योपादेयत्वादेनं सुबहमहत्वं प्रदत्तम् । अतएव पाश्चात्यैः भारतीयैश्च कैश्चिद्विद्भिरस्य सुस्पष्टत्वं, सहजत्वं कठिनत्वं च प्रतिपादयितु स्वलेखनी साधिता ।
यद्यप्येनं सिद्धान्तमुद्दिश्य शङ्कराचार्य महोदयैर्यदालोचितं तद्विषये भूतपूर्वप्रयाग विश्वविद्यालयस्योपकुलपतिभि. डा० गङ्गानाथझा महोदयै लिखितम्"'यस्मात्कालान्मया शङ्कराचार्यैविधत्तं जैनसिद्धान्तस्य खण्डनमधीतं, तस्माकालात् ममायं विश्वासः समुत्पन्न, यदत्र बहु ( ज्ञानं ) वर्तते, यदुवेदान्तविज्ञैराचार्यैर्न सम्यग्ज्ञातम् । यच्चाद्यावधिपर्यन्तं मया जैनदर्शनज्ञानमजित, तेनाहं दृढेन विश्वासेन कथितु शक्नोमि यत् शङ्कराचार्य महोदयैर्यद्यस्य मौलिकग्रन्थानामवलोकनाय कष्टः कृतः स्यात्तर्हि तेभ्योऽप्यत्र विरोधाय नावकाश स्यात् । '
अनेन विवेचनेनेदमेव ज्ञायते यत् शङ्कराचार्य महोदयैरस्य जटिलपक्षमेवावलोकितम् यच्च विश्वप्रसिद्धम् । यतश्चात्र एकस्मिन्नेव वस्तुन्युत्पाद-व्ययधौव्याणा परस्पर विरुद्धधर्माणा सद्भावो कथं जायते ? इत्येवास्य जटिलतां प्रामुख्येनाभिदधाति । वस्तुन उत्पाद-व्यय- ध्रौव्ययुक्तत्वमेवोद्दिश्य बहुभिराचार्यैरस्य जाटिल्यस्य विवेचन कृतम् । किन्तु जैनदार्शनिकैरपि यदेतज्ज्ञातंयद्वस्तुनि परस्परविरुद्धधर्माणामेकत्रोपस्थिति न सामान्यजनेनावगम्या, तदा तैरस्येयत्सारल्येन विश्लेषण कृत यत् बालोऽपि तमनायासमेत्रावगच्छतु ।
स्याद्वादस्य त्रिगुणात्मकता
कश्चन् स्वर्णकार, स्वर्णकलशमेकं भित्वा स्वर्ण मुकुटं निर्मातु सलग्नस्तदैव तत्पार्श्वे एक. स्वर्णघटार्थी, अन्यश्च स्वर्णमुकुटार्थी, अपरण्च स्वर्णार्थीति त्रयो क्रेतारः समागच्छन् । तत्र स्वर्णकारस्य प्रवृत्ति दृष्ट्वा प्रथमेन कष्टमनुभूतम्, यतोहि स स्वर्णघटार्थ्यासीत्, स्वर्णकारश्च घट भिद्यमानः । अन्यस्तु हर्षमगच्छत् यतो हि स्वर्णकारस्तदा स्वर्णकलशं विभेद्य स्वर्णमुकुटनिर्माणे सलग्न आसीत् । स क्रेतापि स्वर्णमुकुटाभिलाष्यासीत् । अपरश्च स्वर्णार्थी न तु शोकं, नापि हर्षमगच्छदपितु माध्यस्थभावेनैव स्वर्णकारप्रवृत्तिमवलोकयन्नतिष्ठत् । यतश्च सः स्वर्णार्थ्यासीत् । घटस्य सत्वे विनाशानन्तरं मुकु
पत्तौ चोभयत्रापि स्वर्णस्य तदीप्सितस्य सत्वात् न शोकप्रमोदावस्था तस्य सञ्जाता । अतस्तस्य मनसि न तु शोक एव जातः नापि हर्ष. ।
स्याद्वावस्तदीयं व्यवस्थानियामकत्वञ्च
६३