________________
अस्यायमेवाभिप्रायः --यदेकस्मिन्नेव पदार्थे (स्वर्णे) एककालावच्छेदेनैवको विनाशं, अन्य उत्पत्ति, अपरश्च धौम्य यथा पश्यति तथैव प्रत्येकमपि वस्तु परस्परविरुद्धधर्मात्मकं त्रिगुणात्मकत्वं स्वभावेनैव भजते । इमा एव परस्परविरुद्धधर्माणां सकारणस्थितयः । अतएव वस्तुषु नानापेक्षाभिर्विरोधिधर्मास्तु तिष्ठन्त्येवेति ।
इदमस्त्यस्य सहजत्वम् । किन्तु एतस्मादपि सहजतर मार्गे गच्छतोऽपि जनानवबोधयितुमयं मार्ग आचार्यः प्रकटित. । केनापि जनेन राजपथे गच्छन्तमाचार्य दृष्ट्वा पृष्टं, कः भवता स्याद्वाद. ? आचार्यैः कनिष्ठामनामिकाञ्च तदभिमुखं प्रसार्योक्तम्-अनयो कतरा दीर्घा ? तेन जनेनोक्तम्-अनामिका । पुनश्चाचार्य. कनिष्ठिकामपसृत्य मध्यमा च प्रसार्याभिहितम्-अनयोः कतरा लघ्वी उत्तरितं तेन जनेन-अनामिका । तदाभिहितमाचार्येण संतुष्टमनसायद् यथाभवन्त' एकामेवागुलिका दीर्घति लघ्वीति चापि कथयन्ति, तथवायं स्याद्वादोऽपि परस्परविरुद्धधर्माणामेकत्र स्थापक सिद्धान्त.। इयमेवास्य सहजगम्यता सुस्पष्टता च, या सर्वेषामपि शेमुषीमताम्मनासि आकर्षयति । स्याद्वादस्य नयापेक्षत्वम् स्याद्वादसिद्धान्ते नयाना बहुमुखी विवक्षा वर्तते। यतश्च यस्य कस्यचिदपि पदार्थस्य स्याद्वादेन योऽर्थ प्रविभक्तो भवेत्तस्यैव नया व्यञ्जका भवन्ति,." नोयते-साध्यते, गम्यमानोऽर्थो येनेति व्युत्पत्यात्मकत्वात् । इमे च नयाः सप्तविधा भवन्ति । एष्वेव स्याद्वादस्य सप्तभङ्गानां वाधारः स्थितो विद्यते, ते च नया' यथा
१. नेगमः 'अर्थस्य सकल्पमात्रग्राही नेगमो नय..." । अथवा 'देशसमग्रग्राही नगम.' इति । यथा खलु कश्चन् पुरुष प्रस्थनिमित्तं वनात् काष्ठ समानेतुं परशुहस्तो गन्छति । तत्र कोऽपि पृच्छति, कुत्र भवान् गच्छति ? स उत्तरति-प्रस्थमानेतुं । अत्र काष्ठेन निर्मितं द्रव्यविशेषमेव प्रस्थसंज्ञ भवति, न तु केवलं काष्ठमेवाथ चात्र तदर्थ काष्ठमप्यानेतु सः गच्छन्नस्ति, अतो नात्रायमुचितः समाहित.। किन्त्वत्र तेन प्रस्थनिर्माणाय कृतसंकल्पत्वादेवेदमुत्तरं दत्तम् । अतएवात्र नैगमनयापेक्षयायं व्यवहार उचितः ।
जनदर्शन आत्म-व्यविवेचनम्