________________
२. संग्रहः
'स्वजात्य विरोधेने कत्वोपनयात् समस्तग्रहणं संग्रह : ०५ इति तत्त्वार्थराजवार्तिके उक्तम् । इदमेव किञ्चित् शब्दभेदेन प्रमाणनयतत्त्वालोकेऽप्यभिहितम् 'सामान्यमात्रग्राही संग्रहः "०" । तथात्र तत्त्वार्थभाष्ये तु पदार्थानां सामान्यविशेषोभयविधधर्माणां संग्रहणादेकस्य कस्यचित्सामान्यस्य स्वीकरणमेव संग्रहत्वेन स्वीकृतम् । तद्यथा - 'अर्थानां सर्वेकदेशसंग्रहण संग्रह : "" इति तथाहि'सत्' इत्युक्ते सत्तासम्बन्धेन ग्राह्यानां द्रव्यगुणकर्मादिसर्वेषामपि तत्त्वाना ग्रहणं भवति, यथा च द्रव्यमित्युक्ते जगतिस्थितानां सर्वेषामपि पदार्थानां निरवशेषेण ग्रहणं भवति, तथैव संग्रहनयेन कस्यचिदपि निर्विशेषस्य पदार्थस्य सामान्येन ग्रहणं भवतीति ।
-यथा
३. व्यवहारः
अयं व्यवहारनय संग्रहनयेन ग्रहोतमर्थ विधिपूर्वकमवहरति, अतएवास्येदं सार्थकं नाम । इदमेव तत्त्वार्थराजवार्तिके स्वीकृतम् । तथा च यः खलु सामान्यस्य निराकरणपूर्वकं विशेषेण व्यवहरति स एव व्यवहार इति विशेषावश्यकभाष्यवृत्तावुक्तम् । तद्यथा-संग्रहेण गृहीते सदर्थे द्रव्यत्वं गुणत्वञ्चास्ति । तत्र च द्रव्यान्तः जीवोऽजीवश्चापि भवति । एवं प्रकारकं विभाजनं येन विधिपूर्वकं क्रियते स एव 'व्यवहार' इति पदवाच्यो भवति ।
१०९
४. ऋ जुसूत्रः
यथा ऋजुसूत्रपातस्तथा ऋजु प्रगुणं सूत्रयति तन्त्रयति" - ऋजुसूत्र इति भट्टाकलङ्कः। तत्त्वार्थभाष्यकृतश्च सतां साम्प्रतानामर्थानामभिधानपरिज्ञानम्ऋजुसूत्र :, "" इति । किन्त्वत्रान्यैराचार्यैरपि कृता अन्या. अपि परिभाषा: प्राप्यन्ते । तथाहि - ऋजु अवक्रं वस्तुं सूत्रयति - ऋजुसूत्र । परमत्र सर्वेषां केवलमयमेवाशयो विद्यते, यद्यः खलु केवलं वर्तमानं, वर्तमानकालिकं पदार्थ व्यवहारं वा ग्रह्णाति स ऋजुसूत्र इति । तथाहि - यथा खलु कश्चन् लेखने सलग्नोऽतः सः लेखक इति । यश्च कश्चन कदाचित् लेखनकार्यमेव यद्यपि करोति, किन्तु सम्प्रति न लेखनक्रियायां संलग्न, तन्न सः ऋजुसूत्रनयापेक्षा 'लेखकः' इत्यभिधातु शक्यते । अर्थादयं नयः वर्तमानकालिकक्षणस्यैव ग्राहको भवति । यथा रज्जुः प्रज्वलतीति व्यवहारे-रज्ज्वा यावद्भागः स्याद्वादस्तदीयं व्यवस्थानियामकत्वञ्च
६५