________________
प्रज्वलितः, न तज्जुः, यश्चावशिष्ट सः न प्रज्वलत्यपितु रज्वाः यावदंशः प्रज्वलमानस्तिष्ठति तदपेक्षवायं व्यवहारो भवतीति ।
५. शब्द:
'शत्यर्थमाह्वयति प्रत्यायतीति शब्द. २ इति भट्टाकलङ्ककवचनानुसारं संकेत ग्राहको बोधक शब्दनय इत्युच्यते । शब्दनयदृष्ट्या व्याकरणशास्त्रीयप्रयोगाणामपि नौचित्य तिष्ठति, तत्र लिङ्ग संख्या-साधन - कालादिव्यभिचाराणां विद्यमानत्वात् । तथाहि - स्त्रीलिङ्गेन सह पुल्लिङ्गशब्दप्रयोग. - 'तारका स्वातिः', पुल्लिङ्गेन च सह स्त्रीलिङ्गस्य- 'अवगमो विद्या', स्त्रीलिङ्गेन च सह नपुसकशब्दस्य - 'वीणा आतोद्यम्' इत्यादयः प्रयोगाः न निष्पन्नाः स्युः । एवमेव सख्यादिप्रयोगानां व्यभिचारोऽपि न निष्पन्नत्वमधिगच्छतु ।
६. समभिरूढः
अनयापेक्षया कस्यचिच्छब्दस्य यदि शताधिका अपि अर्था सन्ति परं यदि सः कश्मिचिदर्थविशेपे रूढो सजातस्तदा न तस्यान्येऽप्यर्था ग्रहणीयाः भवन्तीति । अतएवाकलङ्केनोक्तम् - 'नानार्थसमभिरोहणात् समभिरूढ. ११३ 1
७. एवम्भूतः
यस्मिन् काले यो यम्यामवस्थाया विद्यते तस्य तथैव विश्लेषणमेवम्भूतनयस्य कार्यमिति । यथा खलु इन्द्र यदा इन्दनशक्ति मनुभवस्तिष्ठति, तदैव स 'इन्द्रो' भवति, न तु नाम-स्थापना द्रव्यनिक्षेपावस्थायामपि ।
नयानां द्वं विध्यम्
इमे उपर्युक्ता सप्तविधा अपि नया मूलतो द्रव्य-पर्यार्यार्थिकयोर्विभेदयोविभक्ता सन्ति । तत्र केचन तु केवल नैगमसग्रहावेव द्रव्यार्थिकेन स्वीकुर्वन्ति । केचन चाचार्या नैगम- सग्रहव्यवहारादिनयत्रय द्रव्यार्थिकत्वेन ग्रह्णन्ति । सामान्य-विपयग्राहित्वाद्रव्यार्थिकनयस्य केवलं नैगम. एवास्यान्तर्भाव्य' । पर्यायार्थिकस्य च भेदविवक्षात्मकत्वात्, विशेषग्राहकत्वात्शेषाणामन्येषा षणयानां तत्रान्तर्भावो जायते । एतेषा नयाना भेदोपभेदास्तु बहुविधा. सन्ति । येषामत्र विवेचनमप्रासङ्गिकत्वात् न विशेषतः क्रियते । जैनवर्शन आत्म-प्रव्यविवेचनसु
६६