________________
अतएव संक्षेपतः को द्रव्यार्थिको नयः, कश्च पर्यायाथिकः इत्येवोक्तम् । तथा चात्र यथा नयानां द्रव्य-पर्यायार्थिकरूपो द्विविधो भेदस्तथैव निश्चय-व्यवहारात्मकोऽपि भेदो दृश्यतेऽथ चानयोर्व्यवहारोऽपि शास्त्रषु प्रायः प्रत्येकमपि सिद्धान्ते कृतो विद्यते । अस्मात्कारणादनयोरपि निदर्शनं समुचितं प्रतिभाति।
नयानां निश्चयव्यवहारत्वम् स्याद्वादसिद्धान्ते, सप्तभङ्गानां व्यवहारे वा वस्तुतः निश्चय-व्यवहार-नययोरेव सम्बन्धः विशेषावश्यकः । यतश्चोभयत्र यावत्योऽपि विवक्षा: समुपजायन्ते ताभिविशिष्टाभिरपेक्षाभिः सम्बद्धौ निश्चय-व्यवहारनयावेव स्तः। प्रत्येकमपि द्रव्यं व्यवहारे यादृशं प्रतिभाति, वस्तुत. न तादृशमेव तद्विद्यते, तस्याप्यन्ये स्वरूपाः सन्तीत्यस्य विवेचको निश्चयो नयः । एतदेवाचार्यरुक्तम्
'तत्वार्य निश्चयो वक्ति, व्यवहारश्च जनोवितम्' । १५ एतदेवानेनोदाहरणेन सुस्पष्टं भवति-'गौतमेनकदा भगवान् महावीरः पृष्ट:भगवन् ! फणितप्रवाहिगुडे कियन्तो वर्ण-गन्ध-रस-स्पर्शाः ?' महावीरेण प्रतिपादितम्-'व्यवहारेण तु स मधुर एव वर्नते, किन्तु निश्चयनयापेक्षया तु तस्मिन् पञ्चवर्णाः, द्वौ गन्धौ, पञ्चरसा., अष्टौ स्पर्शाश्च भवन्तीति' ।
अस्यायमेवाभिप्रायः, यद्वस्तुन इन्द्रियग्राह्य स्वरूपमन्यद्भवति, वास्तविकञ्च स्वरूपमन्यत् । वय बाह्यस्वरूपमेव पश्याम , यच्चेन्द्रियग्राह्यम् । सर्वज्ञस्तु बाह्यस्वरूपमाभ्यन्तरस्वरूपं च निश्चयनपेन सम्यगविजानाति । सापेक्षवादस्याधिष्ठातुः प्रो० अलवर्टआईस्टीनमहोदयस्यापि अयमेवाशयो वर्तते । ते कथयन्ति यत्--'वयं तु केवलमापेक्षिक सत्यमेव जानीमः, सम्पूर्ण सत्यं तु सर्वज्ञ एव विजानाति'१६ । तच्च सर्वज्ञज्ञानं केवलात्मकत्वात् पूर्णत्वाद्वा द्रव्यस्य सर्वासामपि विवक्षाना ज्ञायकं भवतीति । स्याद्वादस्य सापेक्षत्वम् जैनदर्शनस्य हृदयरूपोऽयं सिद्धान्तः वस्तुनः पदार्थस्य वा सापेक्षत्वस्वीकरणार्थमेव सप्तभङ्गान् प्रतिपादयति । नैनं विना कस्यचिदपि पदार्थस्य स्वरूपः पूर्णतामधिगच्छति । यथा कञ्चन आम्रफलं स्वस्माद्दीर्घादन्यफलात् लघवपि भवति तथा चान्यात्स्वस्मात् लघुफलात् दीर्घमपि भवति । अतश्चानयोर्द्वयोरपि लघु-दीर्घयोः फलयोरपेक्षयाम्रस्यापि लघुत्वं दीर्घत्वञ्च यदा
स्याहारस्तवीयं व्यवस्थानियामकत्वन्ध