________________
स्वीक्रियेत तदैवा म्रफलस्य स्वरूपः पूर्णत्वमवाप्नोति । न तु केवलेन लघुस्वरूपेर्णव तस्य बोधो यथार्थः जायते, नापि केवलं दीर्घस्वरूपमधिकृत्य तत्स्वरूपस्य पूर्णता भविष्यति ।
अस्मात्कारणादेव स्वद्रव्य क्षेत्र काल - भावापेक्षया, परद्रव्य-क्षेत्र -काल- भावापेक्षया च वस्तुनो यत्स्वरूपं निर्धारितं भवति, तदेव वस्तुनो वास्तविकं स्वरूपमित्युच्यते । एतच्च व्याख्यातुं स्याद्वाद एवैकः सिद्धान्त. दार्शनिके जगति जेनैः स्त्रीकृतो विद्यते, येन न केवलं लोकव्यवहारोऽपितु पदार्थमात्र एव विषयत्वेन गृह्यते ।
यः कोऽपि पुरुष कस्यचिदपेक्षया भ्रातृत्वेन भ्राता भवति । अपरश्च तत् भागिनेयोऽतस्तदपेक्षया स मातुलोऽपि अन्यश्च तस्य मातुलस्तदपेक्षया तु भागिनेयोऽप्यस्ति । एवमेवान्येऽपि बहव एताशाः सम्बन्धास्तदपेक्षयाऽपि तस्य विविधा स्वरूपास्तत्र तत्र यन्ते । अत्र यदि कयाचिदेकयैवापेक्षया तस्य पुरुषस्य स्वरूपो निश्चीयते, तत्सत्ये प्रतिष्ठितं पूर्ण वा भविष्यतीति कथ वक्तु शक्नुमः ? यदा हि तस्यान्येऽपि स्वरूपा. अस्माकमभिमुख विद्यमानास्तिष्ठन्ति । तदपेक्षया तु न मातुलः भ्रातान्यो वा कश्चिद्भवितुमर्हति । नापि मातुलस्तदरिक्तोऽन्य कश्चित् । अतोऽत्रानेन अपेक्षाव्यवहारेण "" ज्ञायते यत् तस्य पुरुषस्य कश्चनापि स्वरूप, सम्बन्धो वा न पूर्णत्वयुक्तस्तावद्भवति, यावत्सर्वेऽपि स्वरूपा नैकत्वेन तस्मिन् स्वीकरणीयाः इति । अतएव विभिन्नापेक्षाभिर्य स्वरूप. नानासम्बन्धात्मको कस्यचिदपि वस्तुनः पदार्थस्य पुरुषस्य वावलोक्यते, स एव तस्य वास्तविक स्वरूप, तस्यैव विवेचन स्याद्वादस्य ध्येयम् । तदपेक्षाना सापेक्षत्वात् च स्याद्वादस्यापि सापेक्षत्व स्वीकर्त्तव्यमेवेति ।
स्याद्वावस्य संशयवादत्वं, प्रनिश्चिततावादत्वं वा ?
स्याद्वादस्य जटिलतामधिकृत्य विद्वद्भिरस्य कट्वालोचनं विधत्तम् । स्याद्वादस्य हार्दमिदमजानन् शङ्कराचार्यैरपि लिखितम्, यत् -- ज्ञानसाधनानि, ज्ञानविषय:, ज्ञानक्रियाः, सर्वेऽपि जैनदर्शने अनिश्चिताः सन्ति, तत्कथमधिकृतरूपेण तीर्थंकरैरुपदेश आचरण वा कर्तुं शक्यते ? यत् स्याद्वादिनोऽनुसारं तु ज्ञानमात्रमेवानिश्चित वर्तते । अतएव तैरेभ्यः 'सशयवादस्य' 'अनिश्चिततावादस्य' वा सज्ञा प्रदत्ता । इदं विवेचनं स्वत एव प्रकटयति यत् शङ्कराचार्यजनदर्शन आत्मद्रव्यविवेचनम्
६८
ม