________________
महोदयः सम्भवतः 'स्यादस्ति' 'स्यान्नास्ति' इत्यत्र 'स्यात्' 'पदं राष्ट्रभाषायाः 'शायद' इत्यस्य नामान्तरं स्वीकृतम् । परमत्र नायं स्याच्छन्द:" संशयस्यानिश्चिततायाश्च वा द्योतकः । यतो ह्यनेन पदेन वस्तुनोऽनन्तधर्मात्मकत्वस्यैव बोधो भवति । वस्तुनः स्वरूपनिर्णये वयमेकस्यैव धर्मस्यापेक्षां कुर्मः, यदा हि तत्रान्येऽपि तद्धर्माः विद्यन्त एव । अतः 'स्यादस्ति एव' इत्यत्र कश्चिद्धर्मविशेषस्यैवापेक्षास्ति। अस्मात्कारणादेव नात्र सन्देहस्यानिश्चिततायाः वावकाशः । स्याद्वादोन कश्मिश्चित्काल्पनिके आकाशे जगति वा स्थितः, अपितु व्यवहारस्यको बुद्धिगम्य: सिद्धान्तः । बहुभिराचार्यस्तु यदस्मै 'अस्तिनास्ति' इत्यनयोः रहस्यमजानन् सशयवादस्य अनिश्चिततावादस्य वा संज्ञा प्रदत्ता, सा चिन्तनधाराया सम्यगदिशि समागता सती तेषां सिद्धान्तानां स्वद्रव्यक्षेत्रकालाद्यपेक्षया सत्यत्वं स्थापयिष्यति । यतो हि स्यादस्ति-नास्तीत्यादयः सप्तभङ्गा एवास्य स्याद्वादस्य हृदयभूतास्तिष्ठन्ति ।
सन्दर्भोल्लेखाः १. (अ) तसू-उत्पाद-व्यय-ध्रौव्ययुक्त सत् ५।३०।। सद्रव्यलक्षणम्, ५।२६।।
(ब) प्रसा-अपरिचित्तसहावेणुप्पादव्वयधुवत्तसजुत्तम् २॥३॥ (स) पंचा-दवियदि गच्छदि ताइ ताई सम्भावपज्जयाइ जं ।
दविय त भण्णन्ते अणण्णभूदं दु सत्तादो ॥६॥ २. (अ) तसू-गुणपर्ययवद्रव्यम् ॥३७॥ द्रव्याश्रयाः निर्गुणाः गुणाः ॥४०॥
(ब) प्रसा-गुणव च सपज्जाय ज त दव्वत्ति वुच्चति २।३।। ३. प्रसा-२।।
४ प्रसा-२।२०,२१॥ ५. प्रसा-२॥१२॥ ६. प्रसा-२॥११॥ ७. प्रवा-२।११०॥ 5. आमी-घटमौलिसुवर्णार्थी नाशोत्पादस्थितिष्वयम् ।
शोकप्रमोदमाध्यस्थ्य जनो याति सहेतुकम् ॥५६॥ पयोवतो० ६०॥ ६. मीश्लोवा-वर्धमानकभङ्गे च माध्यस्थ्यं तेन सामान्यनित्यता ॥ १०. अ-अपाम-द्रव्यं हि नित्यं 'द्रव्यमेवावशिष्यते १३१३१॥ ब-पायोभा- ४॥१३॥ ११. आमी-कार्यकारणनानात्व''यदीष्यते ॥६१॥
सन्दर्भोल्लेखाः