________________
पररूपताया अपि प्रसङ्गः प्राप्नुयात् । अथ च पररूपचतुष्टयेनेव स्वरूपचतुष्टयेनापि यद्यसत्स्वीक्रियेत तदा निःस्वरूपत्वादभावात्मकतायाः प्रसङ्गः स्यादतः arraraस्थायै प्रत्येकं द्रव्यं स्वरूपेण सत्वररूपेण चासदेव व्यवतिष्ठते ।
द्रव्यस्य एकानेकात्मकत्वम्
वस्तुतः स्वतंत्र सिद्धयोः पृथकद्रव्ययोर्नेकात्मकत्वं घटतेऽपितु व्यवहारायेव तयोरेकत्वं स्वीक्रियते । यथाहि-- पुद्गलद्रव्यस्यानेकेऽणवो स्कन्धा - वस्थां प्राप्ते सति काञ्चित्कालावधि यावदेकसत्तात्मकाः भवन्ति, तत्र तावतेषां द्रव्यष्ट्यैकत्वं गुणपर्यायदृष्ट्या चानेकत्वम् । इत्थमेको मनुष्यः (जीव ) बाल-युवा- वृद्धावस्थापेक्षयाने कात्म कोऽनुभूयते । किन्तु यथा द्रव्यं गुणपर्याय:, संख्या -संज्ञा - लक्षण - प्रयोजनाद्यपेक्षाभिश्च भिन्नमपि गुणपर्यायाणां द्रव्यादपृथक्त्वात्, गुणपर्यायाणां पृथग्विवेचनाशक्यत्वाद्वाभिन्नम् भवति ।
सर्वेषामपि द्रव्याणां सत्सामान्येनैकत्वम्, स्वस्वरूपचतुष्टयत्वेन चानेकत्वम् । इत्यमेवेदं समग्रमपि विश्वमनेकात्मकमपि व्यवहारार्थ संग्रहेणैकमेव कथ्यते । एकं हि द्रव्यं स्वगुणपर्याय: अनेकात्मकम्, एक एवात्मा हर्ष-विषादसुख-दुःखज्ञानादिभिरनेकरूपात्मकोऽनुभूयते ।
攀
द्रव्यमन्यरूपम्, पर्यायाश्च व्यतिरेकरूपाः । द्रव्यमेकं पर्यायाश्चानेकाः । द्रव्यस्य प्रयोजनमन्वयज्ञानं, पर्यायप्रयोजनं च व्यतिरेकज्ञानं । द्रव्यस्यानाद्यनन्तत्वम्, पर्यायाणाञ्च प्रतिक्षणं विनाशशीलत्वम् । इत्थं द्रव्यस्यैकत्वेऽपि यदनेकात्मकता प्रतीति सिद्धा वर्तते, तन्नात्र कश्चनापि विरोधो संशयो वा ।
द्रव्यस्य भावाभावात्मकत्वम् (श्रनन्तधर्मात्मकत्वम् )
द्रव्यस्य ( वस्तुन. ) अनन्तधर्मात्मकत्वविषये बहुधा जनाः विवदन्ते, यत् घटे यदा अस्तित्वं तदा कथं तस्य नास्तित्वम् ? घटस्य यदेकत्वम्, तदा कथमनेकत्वं तस्य ? किन्त्वत्र विचारे कृते सति ज्ञायते यद् घटो घट एव न वस्त्रम्, नापि किञ्चिदन्यत् । अस्यायमभिप्रायो वर्तते, यत् घटो तद्भिन्नानन्तपदार्थात्मको यदि नास्ति, तद् 'घटः स्वरूपेणास्ति, पररूपानन्तपदार्थात्मकाभावात् पररूपात्मको नास्ति' यदि नेत्थं स्यात्, तदा घटः पट एव स्यादन्यत्कश्चिद्वा स्यात् । अत्र दं पररूपव्यावर्तकं नास्तित्वमेव घटस्यास्तित्वं स्थापयति । अस्मिन्नेव घटे रूप-रस-गन्धस्पर्श- लघुत्व-दीर्घत्व-सूक्ष्मत्वादयो गुणधर्माः सन्ति । एषामपेक्षया तु घटोऽनेकधर्मात्मको वर्तते, यथा खलु घटेऽनेके जैनदर्शने द्रव्यव्यवस्था, तदीयं महत्वच
६१