________________
प्रत्येकं द्रव्य गुणपर्यायाणामाधारभूतं भवति' द्रव्यस्वभावाश्च गुणाः, अतो द्रव्यादपृथग्भूताः, एषामेवपरिणामाद् द्रव्याणां परिणमनं लक्ष्यते । एषां गुणानां त्रिकालावस्था: पर्यायाः । गुणाश्च प्रतिक्षणं पर्यायपरिणतस्वभावः । अतएव प्रतिणक्षमेकं पर्यायं परित्यजति द्वितीयं च प्रतिग्रह्णाति ।
द्रव्यस्य गुरणपर्यायात्मकत्वम् (सामान्यविशेषात्मकत्वम् )
द्रव्यस्य सामान्यविशेषात्मकं विशेषणं धर्मरूपं वर्तते यच्चानुगतप्रत्ययस्य व्यावृत्तप्रत्ययस्य च विषयः । वर्तमानं प्रत्यतीतस्य, भविष्यन्तं प्रति च वर्तमानस्योपादानकारणत्वेन त्रयाणामपि क्षणानामविच्छिन्नकारणकार्यपरम्परा सिध्यति ।
द्रव्यस्य न केवल सामान्यात्मकत्वम्, नापि च केवलं विशेषात्मकत्वम्, किन्तूभयात्मकत्वम् । यदि केवलमूहवता सामान्यात्मक द्रव्यं (सर्वथा नित्योऽविकारि) स्वीक्रियते, तदा त्रिकाले तस्य सर्वथैकरसत्वमपरिवर्तनशीलत्वम् कूटस्थत्वञ्च सिद्ध्येत् । ईदृशे च पदार्थे सति परिणामाभावाज्जगतः समस्तव्यवहाराणामुच्छेदः, सर्वासामपि क्रियाणां फलरहितत्वम्, पुण्य-पाप-बन्धमोक्षादीना च व्यवस्थाया. विनाशो भविष्यति । अतस्तस्मिन् द्रव्ये परिवर्तनं ववश्यमेव भवितव्यम् । यतो हि वय नित्य प्रति प्रत्यक्षं पश्यामः यत्कश्चन् बालकः द्वितीयश्चन्द्र इवाहरहः वर्धते, शिक्षामाप्नोति, विकासञ्च लभते । जडस्य जगतोऽपि विचित्रा: परिणामाः सन्त्यस्माकं समक्षमतो द्रव्यस्य सर्वथा नित्यत्वात्तेषु क्रमेण युगपद्वा केनापि प्रकारेणार्थक्रियाकारित्वं न स्यात् । अर्थक्रियायाश्चाभावे द्रव्यस्य सत्तापि विनाशं लभेत् ।
एवमेव यदि द्रव्य केवलं पर्यायात्मकं विशेषात्मकं वा स्वीक्रियते, अर्थात्पूर्वक्षणपर्यायस्योत्त रक्षणपर्यायेण सह कश्चनापि सम्बन्धो न स्वीक्रियेत तदादान-प्रदान- गुरु-शिष्यादिव्यवहाराः, बन्ध-मोक्षाद्यवस्थाश्च समाप्ताः स्यु' । कार्यकारणभावाभावेऽर्थक्रियापि न स्यात् । अतएव द्रव्यं सामान्यविशेषात्मकं द्रव्यपर्यायात्मक' वाभ्युपगन्तव्यम् ।
द्रव्यस्य सदसदात्मकत्वम्
प्रत्येकं द्रव्य स्वद्रव्यक्षेत्रकालभावान् नाक्रामति, न च परद्रव्यक्षेत्रकालभावानवाप्नोति, तस्मात् स्वद्रव्याद्यपेक्षया द्रव्य सत्, परद्रव्याद्यपेक्षया चासत् । द्रव्य-क्षेत्र - काल- भावानामिदं चतुष्टयमेव स्वरूपचतुष्टयः । प्रत्येकञ्च द्रव्यं स्वरूपचतुष्टयेन सत्, पररूपचतुष्ट्येन चासद्भवति । यदि स्वरूपचतुष्टयेनेव पररूपचतुष्टयेनापि सत्ता स्वीक्रियेत तदा स्वपरयो भेद भित्वा द्रव्यस्य
६०
जंनदर्शन आत्म-द्रव्यविवेचनम्