Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 60
________________ वैशेषिकाः खलु पृथिव्यादीनि नवद्रव्याणि स्वीकुर्वन्ति । एष्वाधानि चत्वारि द्रव्याणि रूपरसगन्धस्पर्शयुक्तान्येव सत्यतः रूप-रस-गन्ध-स्पर्शयुक्तानामेषां जैनदार्शनिके पुद्गले एतत्सामान्यलक्षणयुक्तत्वादन्तर्भावो जायते । दिशस्त्वाकाशेऽन्तर्भाव', आकाशस्य कालस्यात्मनश्च जनदर्शनेऽपि स्वातत्र्येण द्रव्यत्वमस्ति । किञ्च, मनस्तु जैनदर्शनदृष्ट्या जीव-पुद्गलपर्यायत्वान्त पृथग्द्रव्यात्मकत्वं भजते । तद्यथा--द्रव्यमन', भावमनश्चेति मनसो द्वैविध्यम् । आत्मनो विचार-सरण्या सहयोगि, पुद्गलपरमाणना च स्कन्धरूपं द्रव्यमन. । आत्मनो हिताहितयोविमर्श यदुपकरणरूपं तद्रव्यमन इति। शरीरस्य यस्मिन्नशे आत्मन उपयोगो भवति, तदा तत्र स्थिताः परमाणवोऽपि मन परिणता भवन्ति । विचारशक्तिस्त्वात्मन्येवास्ति, अत. भावमनस आत्मरूपत्वमेव । यथा खलु भावेन्द्रियाण्यात्मन एव शक्तिविशेषरूपाणि, तद्वभावमनोऽपि नोइन्द्रियावरणकर्मण क्षयोपशमात्प्रकट्यमानाऽऽत्मन एवैका विशेषशक्ति , न तद्व्यतिरिक्त मनोद्रव्यं वर्तते । यद्यपीन्द्रियाणा मनसः सहयोगाभावे स्वस्वविषयग्रहणासमर्थत्वमेवास्ति, किन्तु मनस्त्वेकाक्येव गुणदोषविचारादिव्यापारसमर्थत्वात् निश्चितविषयत्वाच्च सर्वविषयकमेव भवति । वैशेषिका द्रव्यातिरिक्ताः षड्पदार्थाः वैशेषिक द्रव्यातिरिक्ताः पइपदार्थाः-'गुण-कर्म-सामान्य-विशेप-समवायअभावा.' अन्येऽपि स्वीकृता । अत्र 'गुणोऽय, गुणोऽय', इत्यात्मकप्रत्ययत्वाद् गुणोऽप्येक. पदार्थ । कर्म-कति प्रत्ययत्वाच्च कर्माप्येक: स्वतत्रपदार्थ. । अनुगताकारप्रत्ययात्मकाः परापररूपाश्चानेके सामान्याः । नित्येषु परमाणषु, शुद्धात्मषु, मुक्तात्मना मनःसु च परस्पर विलक्षणतावगमार्थ प्रत्येकेष्वपि नित्यद्रव्येष्वेकैक विशेषपदार्थ स्वीकृत । अपृथसिद्धाना पदार्थाना सम्बन्धाय समवाय आवश्यक । कार्योत्पत्तेः प्राग्वस्तुनो भाव प्रागभावः, उत्सत्तेरनन्तरं भावी विनाशश्च-प्रध्वसाभाव , पदार्थेषु परस्परमन्यस्वरूपस्याभावोऽन्योयाभाव , कालिकस्य च मंसर्गस्य परस्परमवरोधकोऽत्यन्ताभाव. । इत्थमत्र यावन्त. प्रत्यया. पदार्थेषु प्राप्यन्ते, तावन्त एव पदार्थाः वैशेषिक. स्वीकृता । अतएव वैशेषिकेभ्यः 'सम्प्रत्ययोपाध्याय' पदवी यथार्थमेव प्रदत्ता । गुणादीनामपृथक्पदार्थत्वम् अत्र जैनदर्शनदृष्ट्या विचारे कृते सति ज्ञायते, यद्रव्यस्वरूपाबहिर्न गुणा जनदर्शन आत्म-द्रव्यविवेचनम्

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190