Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 108
________________ निस्सारयति, यच्चोष्णगुणयुक्तत्वादन्यस्य दाहकरणक्षम भवति, तदनुभवधितैजसम, शापदानाघशुभक्रियासमर्थमपि भवति। प्रसादे तु तदेव तेजसं शीतगुणयुक्तं निःसृत्यापरेषामनुग्रहकरणक्षमं शुभलब्धितेजसमित्युच्यते । अलब्धितेजसं तु पाचनशक्तियुक्तत्वादुपभुक्तस्याहारस्य पाचकं भवतीति । किञ्चाष्टविधकर्मणां समूहरूपं यच्छरीरं, तत्कार्मणमित्युच्यते । कर्मभिनिष्पन्नं, कर्मसु भवं, कर्माण्येव वेति कार्मणम् । अत्रान्येषां शरीराणां, तत्तन्नामकर्मोदयापेक्षत्वात्तच्छरीरनिष्पत्तिर्भवत्यतो नात्र सर्वेषां तेषां कार्मणत्वप्रङ्गः समायाति । शरीरस्वामिनः एतेषु पञ्चविधेषु शरीरेषु गर्भसम्मूर्च्छनजन्मभिः प्राप्तमौदारिक"" शरीरम्, औपपादिकजन्मभिर्देवनारकैरधिगतं वैक्रियिक"" शरीरम्, अर्थादौदारिकशरीरस्य गर्भसम्मूर्च्छनजाः, वैक्रियिकस्य च देवनारकाः स्वामिनो भवन्ति । वैक्रियिकस्य लब्धिप्रत्ययत्वात् औदारिकशरीरिषु मनुष्यतिर्यक्ष " तपसादिनिमित्तात् सम्प्राप्तशक्तिविशेषादिदं युज्यते । तैजसमपि लब्धिप्रत्ययं भवति । अथ शुभं, विशुद्धमव्याघातिशरीरमाहारकं प्रमत्तसंयतस्यैव, नान्यस्या कस्यचित्सञ्जायते । शरीराणां सौक्ष्म्यम् पञ्चविधेष्वेषु शरीरेषु पूर्वपूर्वशरीरापेक्षयोत्तरशरीराणां सूक्ष्मता" विद्यते । तद्यथा-औदारिकशरीरापेक्षया वैक्रियिकं सूक्ष्म, तदपेक्षया चाहारकम्, आहारकादपि तैजसम्, तैजसादपि च कार्मणशरीरं सूक्ष्म भवति । अत्र सूक्ष्मपदेन पारस्परिकापेक्षया सूक्ष्मता ग्राह्या भवति । तद्यथा--मनुष्याणां तिरश्चाञ्च शरीरं स्वभावत एव दृष्टिपथमायाति, अतएवौदारिकं शरीरं सर्वतः स्थूलम्, किन्तु वैक्रियिकं शरीरं विक्रियया एव दृष्ट शक्यते, न तु स्वभावेनात इदमौदारिकापेक्षया सूक्ष्माहारकापेक्षया तु स्थूलं भवति, आहारकस्य ततोऽपि सूक्ष्मत्वादियं सूक्ष्मतापेक्षिकीत्युच्यते । एवमेव तेजसापेक्षयाहारकं स्यूलं किन्तु तैजसमपि कार्मणापेक्षया स्थूलमतः कार्मणशरीरमेव केवलं सर्वतः सूक्ष्म (सूक्ष्मतमं) विद्यते । अर्थात्कार्मणशरीरे सर्वतोऽधिका सूक्ष्मता, यतो हि, याभिः पुगलवर्गणाभिः शरीराणि विरच्यन्ते, तासा प्रचयः उतरोत्तरमधिकाधिकसूक्ष्मो सघनश्च भवति । मात्मनो भवान्तरसंक्रमानम्

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190