Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 107
________________ बोनीनामुत्तरमेवाः एतासां नवविधानां योनीनामुत्तरभेदाश्चतुरशीतिलक्षमिताः, ते च प्रामुख्येन यथा--नित्यनिगोतानां (त्रिष्वपि कालेषु ये न त्रसभावमधिगन्तु योग्यास्ते नित्यनिगोताः) जीवानां सप्तलक्षसंख्याकानि, पृथिव्यप्तेजोवायुकायिकादीनां प्रत्येकं सप्तलक्षाणि वनस्पतिकायानामपि दशलक्षाणि, विकलेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां षड्लक्षाणि (प्रत्येक द्विलक्षमितानि), देवनारकपञ्चेन्द्रियतिरश्चां द्वादशलक्षाणि (प्रत्येकस्य चत्वारि लक्षाणि), मनुष्याणाञ्च चतुर्दशलक्षमितानि योनिभूतान्युत्पत्तिस्थानानि भवन्ति । एतानि सर्वाणि समुदितानि चतुरशीतिलक्षसख्याकानि भवन्तीति । शरीराणि (Bodies) एषां त्रिविधजन्मनां ससारिणामनेकविधयोनीनां शुभाशुभनामकर्मनिवर्तनानि बन्धफलानुभवनाधिष्ठानानि शरीराणि तु पञ्चविधानि भवन्ति । तद्यथा-- १-औदारिकम्, २---वैक्रियिकम्, ३-आहारकम्, ४-तैजसम्, ५-कार्मणञ्चेति । शीर्यन्ते यथायोग्यं समयं सम्प्राप्यात्मना सम्बन्ध विच्छेद्य पौगलिकवर्गणारूपेणेतस्तत. प्रकीर्णा भवन्तीति शरीराणि । औदारिकादिषु पञ्चष्वप्ययं स्वभावो दृश्यतेऽतएवेमानि शरीराणीत्युच्यन्ते । शरीररचना अथ चैषा शरीराणा संरचनाऽन्त पुद्गलविपाकिशरीरमनाकर्मोदयापेक्षया भवति । तत्रौदारिकशरीरनामकर्मोदये सति, उदार-स्थूल-आसार-पुदगलद्रव्यर्यज्जायते तदौदारिकम् । विक्रिया च प्रयोजनं यस्य, तक्रियिकम्, वैक्रियिकनामकर्मोदये सति विक्रिया-विविधकरणता-अणिमादिकाष्र्टाद्धयुक्तं गुणयुक्त वा यत् पुद्गलद्रव्यवर्गणोद्भूतं तद्वै क्रियिकम् । सूक्ष्मपदार्थनिर्जानार्थमसंयमपरिजिहीर्षया च प्रमत्तसयतेनाहियते, निर्वय॑ते, यत्तदाहारकम् । आहारकशरीरनामकर्मोदये सति विशिष्ट-प्रयोजनसिद्धौ समर्थम्, शुभतरविशुद्धपुगलद्रव्यवर्गणोद्भुतमन्तर्मुहर्तस्थितिमात्र च यत्नदाहारकम् । तेजोनिमित्त तेजसिभवं वा तैजसम्, तैजसशरीरनामकर्मोदये सति तेजोगुणयुक्तपुद्गलद्रव्यवर्गणोत्पन्न तेजस लब्ध्यलब्धिभेदेन द्विविधम्"। तत्र लब्धिरूपतैजसमपि शुभाशभभेदेन द्विविध भवति । तत्र गोशालकवद्यस्य तेजसलब्धि स क्रोधादिवशीभूत. सन् स्वशरीराबहिस्तैजसमेकमाकृतिक १५४ जनदर्शन आत्मनाव्यविवेचन

Loading...

Page Navigation
1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190