Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 97
________________ रत्नप्रभाविपृथिवीषु नरकसंख्या सर्वासु रत्नप्रभादिपृथिवीसु नारकाणामावासाः विभिन्न संख्याकाः सन्ति । तथाहि - आद्यायां रत्नप्रभायां त्रिशल्लक्षाणि शर्कराप्रभायां पञ्चविशतिलक्षाणि, बालुकाप्रभायां पञ्चदशलक्षाणि, पङ्कप्रभायां दशलक्षाणि, घूमप्रभायां त्रीणिलक्षाणि तमः प्रभायां पञ्चोनमेकलक्ष, महातमः प्रभायाञ्च केवलं पञ्चलक्षसंख्याकानि नरकाणि सन्ति । तथा चात्र रत्नप्रभाया अब्बहुलभागे उपर्यधश्चैकैकयोजनसहस्रं विहाय तन्मध्यभागे इन्द्रक - श्रेणि- पुष्पप्रकीर्णकविभागेन त्रिविधानि नरकाणि, तत्र तेषु त्रिविधेष्वपि विभागेषु त्रयोदशनरकप्रस्ताराः सन्ति । तत्र सीमन्तक-निरयरौरवादयस्त्रयोदशा इन्द्रका सन्ति । शर्करा प्रभायाश्चैकादशनरकप्रस्तारास्तत्र च स्तनक - संस्तनकादय एकादशेन्द्रकाः, बालुकाप्रभायाश्च नवनरकपटलास्तत्र च तप्तत्रस्तादयो नवेन्द्रका, पङ्कप्रभायाश्च सप्तनरकपटलास्तत्र चारमारतारादयस्सप्तेन्द्रकाः, धूमप्रभायाश्च पञ्चनरकप्रस्तारास्तत्र तम-भ्रम-झषअन्ध- तमिस्राभिधाना पञ्चेन्द्रकाः, तम प्रभायाश्च त्रयो नरकपटलास्तत्र च हिम-वर्द ल- लल्लकनामकास्त्रय इन्द्रकाः, महातमः प्रभायाश्चैक एव नरकपटलस्तत्र त्वप्रतिष्ठानाख्यमेकमेवेन्द्रकनगरम् " । अत्र सीमन्तनरके चतसृष्वपि दिक्षु विदिक्ष्वपि च निर्गतानां नरकश्रेणीनामन्तरेषु पुष्पप्रकीर्णकानि नरकाणि सन्ति । तत्र कस्यां दिङ्नरकश्रेण्यामेकोनपञ्चाशन्नरकाणि, विदिङ्नरकश्रेण्याञ्चाष्टचत्वारिंशन्नरकाणि भवन्ति । एवमेव निरयादिष्वपि नरकेषु दिक्षु विदिक्ष, चैकैकं क्रमशः परिहाप्य नरका भवन्तीति । इत्थं रत्नप्रभापृथिव्या त्रयस्त्रिशदुत्तरचतुश्चत्वारिशतशतानि श्रेणीन्द्रकनरकाणि (४४३३), सप्तषष्ट्यधिकपञ्चशतपञ्चनवतिसहस्रोत्तर कोनत्रिशल्लक्षाणि (२६६५५६७) पुष्पप्रकीर्णकानि सन्ति, सम्मिलितानि च त्रिशल्लक्षनरकाणि" ( ३००००००) । ܒ द्वितीयायाञ्च शर्कराप्रभापृथिव्या पञ्चनवत्युत्तरषड्विंशतिशतश्रेणीन्द्रकनरकाणि (२६६५), पुष्पप्रकीर्णकानि च पञ्चाधिकत्रिशतसप्तनवतिसहस्रोतरचतुर्विंशतिलक्षाणि (२४६७३०५), सम्मिलितानि च पञ्चविशतिलक्षाणि " (२५०००००) भवन्ति । तृतीयायाञ्च बालुकाप्रभायां पञ्चाशीत्यधिकानि चतुर्दशशतानि श्रेणीन्द्रकआत्मनां संसारिमुक्तत्वम् १३६

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190