________________
रत्नप्रभाविपृथिवीषु नरकसंख्या
सर्वासु रत्नप्रभादिपृथिवीसु नारकाणामावासाः विभिन्न संख्याकाः सन्ति । तथाहि - आद्यायां रत्नप्रभायां त्रिशल्लक्षाणि शर्कराप्रभायां पञ्चविशतिलक्षाणि, बालुकाप्रभायां पञ्चदशलक्षाणि, पङ्कप्रभायां दशलक्षाणि, घूमप्रभायां त्रीणिलक्षाणि तमः प्रभायां पञ्चोनमेकलक्ष, महातमः प्रभायाञ्च केवलं पञ्चलक्षसंख्याकानि नरकाणि सन्ति ।
तथा चात्र रत्नप्रभाया अब्बहुलभागे उपर्यधश्चैकैकयोजनसहस्रं विहाय तन्मध्यभागे इन्द्रक - श्रेणि- पुष्पप्रकीर्णकविभागेन त्रिविधानि नरकाणि, तत्र तेषु त्रिविधेष्वपि विभागेषु त्रयोदशनरकप्रस्ताराः सन्ति । तत्र सीमन्तक-निरयरौरवादयस्त्रयोदशा इन्द्रका सन्ति । शर्करा प्रभायाश्चैकादशनरकप्रस्तारास्तत्र च स्तनक - संस्तनकादय एकादशेन्द्रकाः, बालुकाप्रभायाश्च नवनरकपटलास्तत्र च तप्तत्रस्तादयो नवेन्द्रका, पङ्कप्रभायाश्च सप्तनरकपटलास्तत्र चारमारतारादयस्सप्तेन्द्रकाः, धूमप्रभायाश्च पञ्चनरकप्रस्तारास्तत्र तम-भ्रम-झषअन्ध- तमिस्राभिधाना पञ्चेन्द्रकाः, तम प्रभायाश्च त्रयो नरकपटलास्तत्र च हिम-वर्द ल- लल्लकनामकास्त्रय इन्द्रकाः, महातमः प्रभायाश्चैक एव नरकपटलस्तत्र त्वप्रतिष्ठानाख्यमेकमेवेन्द्रकनगरम् " ।
अत्र सीमन्तनरके चतसृष्वपि दिक्षु विदिक्ष्वपि च निर्गतानां नरकश्रेणीनामन्तरेषु पुष्पप्रकीर्णकानि नरकाणि सन्ति । तत्र कस्यां दिङ्नरकश्रेण्यामेकोनपञ्चाशन्नरकाणि, विदिङ्नरकश्रेण्याञ्चाष्टचत्वारिंशन्नरकाणि भवन्ति । एवमेव निरयादिष्वपि नरकेषु दिक्षु विदिक्ष, चैकैकं क्रमशः परिहाप्य नरका भवन्तीति ।
इत्थं रत्नप्रभापृथिव्या त्रयस्त्रिशदुत्तरचतुश्चत्वारिशतशतानि श्रेणीन्द्रकनरकाणि (४४३३), सप्तषष्ट्यधिकपञ्चशतपञ्चनवतिसहस्रोत्तर कोनत्रिशल्लक्षाणि (२६६५५६७) पुष्पप्रकीर्णकानि सन्ति, सम्मिलितानि च त्रिशल्लक्षनरकाणि" ( ३००००००) ।
ܒ
द्वितीयायाञ्च शर्कराप्रभापृथिव्या पञ्चनवत्युत्तरषड्विंशतिशतश्रेणीन्द्रकनरकाणि (२६६५), पुष्पप्रकीर्णकानि च पञ्चाधिकत्रिशतसप्तनवतिसहस्रोतरचतुर्विंशतिलक्षाणि (२४६७३०५), सम्मिलितानि च पञ्चविशतिलक्षाणि " (२५०००००) भवन्ति ।
तृतीयायाञ्च बालुकाप्रभायां पञ्चाशीत्यधिकानि चतुर्दशशतानि श्रेणीन्द्रकआत्मनां संसारिमुक्तत्वम्
१३६