________________
३. ज्यौतिष्कदेवाः (Stellar) ज्योतींषि-विमानानि, तेषु भवाः ज्यौतिष्का, यद्वा भास्वरशरीरत्वात् समस्तदिङ्मण्डलद्योतकत्वाच्च ज्योतिरेव ज्योतिष्काः इत्यन्वर्थेयं सामान्यसंज्ञा । एते च पञ्चविधा:-सूर्यः, चन्द्रः, ग्रहाः, नक्षत्राणि, प्रकीर्णकतारकाश्चेति । तदेवोक्त तत्त्वार्थसूत्रे
'ज्यौतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्चेति ॥ अत्र तेषां पञ्चविधानां सर्वेषामपि ज्यौतिष्कानां पृथक्पृथक्कक्षाः विद्यन्ते । ताश्च क्रमश उपर्युपर्येव सूत्रनिर्दिष्टक्रमेण भवन्ति । तद्यथा--सर्वतोऽधः सूर्यकक्षा, ततश्चन्द्रकक्षा, तदनन्तरं ग्रहकक्षा, तदुपरि च नक्षत्रकक्षा, अन्ते सर्वत उपरि च प्रकीर्णकतारककक्षेति । किञ्चात्रार्षेष्वागमेषु चन्द्रस्य कक्षा प्रथममुल्लिखिता, तदनन्तरञ्च सूर्यादीनां कक्षाः । दिगम्बरसम्प्रदायानुसारं तु सर्वतः प्रथमं तारकास्तदुपरि च सूर्यादिकाः सन्तीति वर्णन प्राप्यते । तद्यथा- अस्मात् भूमिभागादूर्ध्व नवत्युत्तरसप्तशतयोजनान्युत्पत्य सर्वज्यौतिषामधोभाविन्यस्तारकाश्चरन्ति । तत ऊर्व दशयोजनान्युत्पत्य सूर्यस्तदनन्तरमशीतियोजनान्तर चन्द्रस्ततस्त्रीणियोजनान्यन्ते नक्षत्राणि, ततस्त्रीणि योजनान्यूज़ बुधः, ततश्च त्रीणि योजनान्यूर्व शुक्रः, ततोऽपि त्रीणि योजनान्यूर्व वृहस्पतिः, तस्माच्चत्वारियोजनान्यूर्वमङ्गारक (भौम) ततश्चत्वारियोजनान्युत्क्रम्य शनिश्चरति । इत्थमिद सम्पूर्ण ज्यौतिष्चक्र नभसि दशाधिकैकशतयोजनशतबहुलोऽसंख्यातद्वीपप्रमाण घनोदधिपर्यन्त तिर्य ग्विद्यते । अत्राभिजिन्नक्षत्र सर्वाभ्यन्तश्चारी, मूलनक्षत्र तु सर्वबहिश्चारी, भरण्यस्तु सर्वाधश्चारिण्यः, स्वातिश्च सर्वोपरिचारीति ।
सूर्यः
अत्र तेषु ज्योतिष्कविमानेषु प्रायः सर्वेषामेव स्वस्वविमानानि सन्ति । येषु ते समारूढास्तिष्ठन्ति । तेषां विमानानां निर्धारितान्यायामानि वर्णादीनि च सन्ति । तथाहि-सूर्यस्य विमानानि तप्तस्वर्णसमप्रभलोहितमणिमयानि चतुर्विशतियोजनकषष्टिभागबाहुल्यानि (२४-१/६० चौडे), अष्टचत्वारिशत्योजनकषष्टिभागविष्कम्भायामानि (४८-१/६० लम्बे), अर्धगोलकाकृतीनि, षोडशसहस्र वैरूढानि भवन्ति । आत्मनां संसारिमुक्तत्वम्
१३३