________________
मानोन्मानप्रमाणयुक्ताः, पाणि-पादतल-नख-तालु-जिह्वौष्ठरक्तवर्णाः, द्युतिमान्मुकुटधरा', रत्नजटिताभरणभूषिताः, वटवृक्षध्वजाश्च" भवन्तीति । राक्षसाः राक्षसा खलु सप्तविधा. भवन्ति । तथाहि-(१) भीम', (२) महाभीमः, (३) विघ्न., (४) विनायक', (५) जलराक्षसः, (६) राक्षसराक्षसः (७) ब्रह्मराक्षसश्चेति। एते राक्षसाख्याः देवा निर्मलवर्णा. अपि भीमा , अतएव भीमदर्शनाः, शिरोकराला', रक्तलम्बोष्ठाः, तप्तसुवर्णाभरणभूषिताः, नानाभर्तािवलेपनाः, खट्वाङ्गध्वजाश्च" भवन्तीति । भूताः भूताख्या देवास्तु नवविधास्तथाहि -(१) सुरूप (२) प्रतिरूपः (३) अप्रतिरूप (४) भतोत्तम (५) स्कन्दिक., (६) महास्कन्दिक. (७) महावेग. (८) प्रतिच्छन्न (8) आकाशगश्चेति । एते च श्यामवर्णात्मका अपि सुरूमा , सौम्या., आपीवरा., विविधविलेपनाः कालरूपा, सुलसध्वजाश्च भवन्ति । पिशाचा. पिशाचा खलु पञ्चदशविधा भवन्ति । तद्यथा-(१) कूष्माण्डः, (२) पटक., (३) जोष , (४) आह्नक , (५) काल , (६) महाकाल', (७) चौक्ष , (८) अचौक्ष , (8) तालपिशाच., (१०) मुखपिशाच , (११) अधस्तारक , (१२) देहः, (१३) महातिदेह , (१४), तूष्णीक., (१५) वनपिशाचण्चेति । सुरूपाः सौम्यदर्शनाश्चेमे पिशाचा हयग्रीवयो मणिरत्नविभूषणप्रिया' कदम्बवृक्षध्वजाश्च" भवन्तीति । किन्नरव्यतिरिक्तेषु शेपेसु सप्तविधेषु व्यन्तरदेवेषु षण्णां दक्षिणेन्द्राणा सत्पुरुष-अतिकाय-गीतरति-पूर्णभद्र-स्वरूप-कालाख्यानां दक्षिरणे भागे, तथाचोत्तराधिपतीना महापुरुष-महाकाय-गीतयश मणिभद्र-अप्रतिरूप-महाकालानाञ्चोत्तरेभागे तावन्त एवावासा यावन्तो खलु किन्नर-किम्पुरुष योभवन्तीति । राक्षसेन्द्रस्य भीमस्य तु दक्षिणदिशि पङ्कबहुलभागेऽसंख्येयलक्षात्मकानि नगराणि विद्यन्ते । उत्तरस्याञ्च दिशि महाभीमस्यापि भीमवदेव नगरसख्या, तथा चैतेषा सर्वेषामपि षोडशविधानां व्यन्तरेन्द्रदेवानां सामानिकादिविभवस्तुल्य एव ज्ञेय. । १३२
जनदर्शन आत्म-नव्यविवेचनम्