________________
७. ईशित्वम्--- अनेन भावेन चान्यैः श्रेष्ठत्वं प्रदर्शितुमहन्ति । ८. प्राकाम्यम् - अनेनभावेन ते यथाभिलषितं कर्तुं मर्हन्तीति । देवानामुत्पत्तिस्थानानि
चतुविधा: निकायाः देवानामभिहिताः । निकायस्तावत्-- नाम, संघः, जातिः, भेदः, निवासस्थान वेत्यवगम्यते । तत्र तेषां देवगतिनामकर्मोदयात्स्वधर्मविशेषादाभ्यन्तरसामर्थ्य कृतभेदा. समुदाया. निकायाः ।
-
एषाञ्चतुविधानामपि देवानामुत्पत्ति-स्थितिस्थानानि भिन्नानि, तत्र भवनवासिनस्तावत् – रत्नपृथिव्या उपर्यधश्चैकैकसहस्रयोजनांशं विहायावशिष्टे भागे समुत्पद्यन्ते । तथा च यदत्रोपर्येकसहस्रयोजनं भागमवशिष्टं, तत्रोपर्यधश्चैकैकशतयोजनं भागं परित्यज्य मध्येऽष्टशतयोजनात्मके भागे व्यंतराः समुत्पद्यन्ते । ज्योतिष्काश्च पृथिवीत नवत्युत्तरसप्तशतयोजनान्तरं (७६० योजनान्तरं ) दशाधिकैकशतयोजनप्रमाणे उच्चैर्नभोभागे समुत्पद्यन्ते वैमानिकाश्च देवाः मेरोरुपरि ऋजुविमानात्समारभ्य सर्वार्थसिद्धिपर्यन्ते भागे विमानेष्वेवोत्पद्यन्त इति । परमेषा गमनागमन तु जन्मस्थानातिरिक्तेष्वपि " स्थानेषु सम्पद्यते ।
darai विभेदाः
एतेषाञ्चतुर्विधानामपि देवनिकायाना क्रमशः दश- अष्ट- पञ्च द्वादशभेदाः कल्पोपन्न स्वर्गपर्यन्ताः भवन्ति । येषु स्वर्गेषु 'इन्द्रसामानिका' दिविभेदानां कल्पना प्राप्यते तानि स्वर्गाणि 'कल्पाः', तत्रोपपादजन्मधारकाश्च देवा 'कल्पना' इत्यभिधीयन्ते । येषु चेयं कल्पना नास्ति, तत्रोत्पन्ना देवा 'कल्पातीता' इत्युच्यन्ते । अत्रेयं कल्पना सौधर्म्याख्यात्स्वर्गादच्युताख्यं स्वर्ग यावदेव विद्यते । तत्रयं कल्पना प्रत्येकं कतिविधा प्राप्यते इति स्पष्टयन् उमास्वातिभिरभिहितम् - एतेषु चतुर्विधेष्वपि देवनिकायेषु प्रत्येकं इन्द्रसामानि कत्रास्त्रपारिषद्य - आत्मरक्ष-लोकपाल अनीक - प्रकीर्णक-अभियोग्यकिल्विषिकाश्चेति दशविधा प्राप्यन्ते । परञ्चात्रैवाग्रे तैरुक्त, यत्-व्यन्तर-ज्यो तिष्केषुत्रायस्त्रिशलोकपालेतिद्विविधभेदाभावात्तयोः प्रत्येक मष्टो विभेदा
भवन्ति ।
देवानां सामान्यमेवाः
या चात्रविभेदाना दशविधा कल्पना, सा यथा-
१. इन्द्राः -- एतेषु चतुविधेष्वपि देवनिकायेषु ये देवा स्व-स्वनिकायवर्तिनां
जनदर्शन आत्म- द्रव्यविवेचनम्
१२६