________________
अतोऽत्र सप्तविधनरकभूमिवासिनां नारकाणाम्, चतुर्णिकायानां देवानां, गर्भजन्मनां सर्वेषामपि मनुष्याणां, केषाञ्चित्तिरश्चामपि समनस्कत्वम्, सम्प्रधारणात्मकसंशित्वादस्ति । तद्यथा-'इयं शङ्खध्वनिः, शृङ्गध्वनिवेति' तर्ककल्पनमीहा। माधुर्यादिना चेयं शङ्खध्वनिरेवेत्यादिकल्पनेनकविषयग्रहणात् शङ्गध्वनिपरित्यागात्मको विचारोऽपोहः । येभ्यश्च कारणेभ्योऽभिप्रेतविजयसिद्धिस्ते गुणाः । यश्चात्र विघ्नोत्पादस्ते खलु दोषाः । इत्थमीहापोहगुणदोषविचारानन्तरं ग्राह्यत्याज्यबुद्धिः संज्ञा । यद्यपीयं संज्ञा ज्ञानरूपवास्ति, परं मनारहितानां केवलमिन्द्रियेभ्यरुत्पद्यमानस्य ज्ञानस्यापेक्षयोत्कृष्टतरा भवत्यतएव समनस्कत्वबोधिकेति । तथा च मन. सहितेष्वेव प्राप्येति । देवानां दिव्यभावाः एखूपरिलिखितेषु देव-नारक-तिर्यङ्-मानुषेषु देवानां चातुर्विध्यं व्याख्यायन् वाचकप्रमुखैरभिहितम्-'देवाश्चतुर्णिकाया" देवानां चत्वारो समुदाया. स्सन्तीत्यर्थः । तद्यथा१. भवनवासिनः (Residential) २. व्यंतराः (Peripatetic) ३. ज्यौतिष्का' (Stellar) ४. वैमानिकाश्चेति (Heavenly) एते चतुर्विधा अपि देवाः दीव्यन्तीति व्युत्पत्या, देवगतिनामकर्मोदयादापादितदेवपर्याया , तत्स्वभावात्क्रीडाष्वासक्ताः, बुभुक्षाः-पिपासादिविरहिताः, रसरक्तादिरहिता अपि दीप्तशरीरयुक्ताश्वपलगत्यात्मकाश्चाष्टविधदिव्यभावैर्भासमानास्तिष्ठन्तीति। अत्र ये खल्वष्टविधाः स्वाभाविकाः दिव्यभावास्ते च यथा१. अणिमा-अनेन भावेन देवाः स्वीय शरीरमतिलघुरूपं निर्मातुं शक्नुवन्ति । २. महिमा-अनेन तेषां लघु-बृहद् पधारणे साहाय्यं प्राप्यते । ३. लघिमा--अनेन देवाः स्वशरीरं स्वल्पभारं कर्तुं शक्नुवन्ति । ४. गरिमा-अनेन च दिव्यभावेन देवशरीराणि भाराधिकानि भवितुमर्हन्ति । ५. सकामरूपित्वम्-दिव्यभावेनानेन देवानां यथेप्सितशरीरग्रहणमथ
चैककालावच्छेदेनाधिकसंख्याकशरीरग्रहणत्वञ्च सम्भाव्यते । ६. वशित्वम्-भावेनानेन देवाः स्वव्यतिरिक्तान् जनान् स्ववशान् कर्तु
मर्हन्ति । आत्मनां संसारिमुक्तत्वम्
१२५