________________
रिन्द्रियाधिकाः; पञ्चेन्द्रिया असंज्ञिनश्च श्रोत्रन्द्रियाधिकाः, संजिनः पञ्चेन्द्रियाश्च मनसा सह सर्वतोऽधिकदशप्राणयुक्ताः भवन्तीति । किचात्र श्वेताम्बरग्रन्थानुसारं तु तेजोवायुकायिकानां सयोगेन त्रसाः षड्विधाः । तत्राङ्गारकिरणादयस्तैजस्कायिका अनेकविधाः । वायुकायिकाश्चापिघनवातादिभेदैरनेकविधाः । यथा स्थावरेषु क्रियाप्राधान्यात् न तेजोवायूनां ग्रहणं कृतं तथैवात्र तत्प्राधान्यादेव ग्रहणं कृतमिति । प्रस-स्थावराणामिन्द्रियविभागः एतेषां पृथिव्यादित्रसस्थावराणां शरीराकारास्तावदीदृशाः पृथिवीकायिकजीवाना" मसूरसदृशाः, जलकायिकानाञ्चाम्बुपृषतसदृशाः, अग्निकायिकानञ्च सूचीकलापसदृशाः, वायुकायिकानां तु ध्वजसदृशाः, वनस्पतिकायिकानाञ्च" नेकविधाः भवन्त्यपितु विभिन्नाकारा एव शरीरा. जायन्ते । एषु पृथिव्यादिवनस्पत्यन्तानां जीवानां केवलमेक" स्पर्शनेन्द्रियं वीर्यान्तरायस्य स्पर्शनेन्द्रियावरणस्य च क्षयोपशमे, शेषेन्द्रियाणां च सर्वघातिस्पर्ध कोदये सति शरीरनामकर्मण, एकेन्द्रियजातेश्चोदये सति भवति । कृम्यादीनामपादिकनूपुरकगण्डूपदशङ्खशक्तिकाशम्बूकाजलौकाप्रभृतीनामेकेन्द्रियेभ्य पृथिव्यादिभ्य एकेन वृद्धौ सत्या स्पर्श-रसने द्वीन्द्रिये" भवत । एतेनाप्येकाधिकानि स्पर्शनरसनघ्राणानि पिपीलिकारोहिणिकोपचिकाकुन्थुतम्बुरुकत्रपुसबीजकासास्थिकाशतपद्युत्पतकतृणपत्रकाष्ठाहारकादीनां त्रीणान्द्रियाणि भवन्ति । एतेभ्योऽप्येकाधिकानि स्पर्शन-रसन-घ्राण-चक्षू षि भ्रमरवटरसारङ्गमक्षिकापुत्तिकादंशमशकवृश्चिकनन्द्यावर्तकीटपतङ्गादीनां चत्वारीन्द्रियाणि" भवन्ति । शेषाणाञ्च तिर्यग्योनिजाना मत्स्योरगभुजङ्गपक्षिचतुष्पदाना सर्वेषां, नारक-मनुष्यदेवानाञ्च पञ्चेन्द्रियाण्येव भवन्तीति । इत्थमत्र केन्द्रियेभ्यो पृथिव्यादिभ्यः समारभ्य पञ्चेन्द्रिय यावत् क्रमश एकैकवृद्धानीन्द्रियाणि" भवन्तीत्ययमाशयः। संझिनो जीवाः (Rational-Soul) (समनस्काः ) संप्रधारण संज्ञाका ये जीवास्ते 'समनस्का' इत्युच्यन्ते । अत्रहापोहयुक्त गुणदोषविचारण सम्प्रधारणम् । तद्युक्ता. संज्ञिन , तद्व यतिरिक्ताश्चासंज्ञिनो ऽमनस्का इत्यर्थ. । अन्यथा पृथिवीकायिकादीनामप्याहारभयमैथुनपरिग्रहसंज्ञाकत्वात्तेषामपि तत् प्रसङ्गादिति । १२४
जनदर्शन मात्म-प्रष्यविवेचनम्