________________
एषां स्थावरनामकर्मोदयापादितपृथिव्यप्कायादीनां जनार्षग्रन्थेषु चातुविध्यं प्रदर्शितम् । पृथिवीकायस्थावरस्य चातुविष्यम्' यथा
१. पृथिवी, २. पृथिवीकायः, ३. पृथिवीकायिकः, ४. पृथिवीजीवश्चेति । पृथिवी (Earth in General)
स्वाभाविकपुद्गलपरिणमनरूपात्काठिन्याच्च पृथिवी चेतनाविरहिता । अत्राचेतनत्वात् पृथिवी कायनामकर्मोदयाभावेऽपि पृथनक्रियोपलक्षितत्वात् पृथिवीत्युच्यते' । पृथिवीसामान्येन वा पृथिवीत्वमिति । उत्तरेषु त्रिष्वपि भेदेषु इयमनुगता भवति ।
पृथिवीकाय: ( Earth-Body )
कायः - शरीरम्, जीवादिभिः परित्यक्तशरीरमिव (मृच्छशरीरवत्) अचेतना पृथिवी 'पृथिवीकाय:' ।
पृथिवीकायिकः ( Earth Bodied Soul)
पृथिवी कायनामकर्मोदयात्पृथिवीं शरीररूपेण स्वीकुर्वन्तो जीवाः 'पृथिवी - कायिका.' ।
पृथिवीजीव: ( Earth-Soul )
पृथिवीनामकर्मोदये सत्यपि यावन्न पृथिवीकायं धारयति तावत्-विग्रहगतिप्राप्तः कार्मणयोगस्थो जीवः 'पृथिवीजीव' रित्युच्यते । एषु स्थावरेषु साकारानाकारभेदात् उपयोगस्य द्वैविध्यमित्यागमेन" युक्त्या " चापि सिध्यति । आहारादिक्रिया विशेषदर्शनात्तेषामाहारभय में धुनपरिग्रहरूपसंज्ञाना बोधो जायते, तस्मात्तेषामुपयोगस्यानुमानेन सिद्धिर्भवतीति । एवमेवान्येषामप्तेजोवायुवनस्पत्यादीनामपि प्रत्यक चत्वारो भेदाः ज्ञेयाः ।
त्रसमेदाः (Mobile-Soul )
पृथिव्यप्तेजोवायुवनस्पतिकायिका एकेन्द्रियाः स्थावराः, इति पूर्वमेव स्पष्टम् । शेषाः द्वीन्द्रियादयस्त्रसाः । ते च द्वीन्द्रिया (Two-Sense ), त्रीन्द्रिया: ( Three-Sense ), चतुरिन्द्रिया ( Four- Sense ) पञ्चेन्द्रियाश्चेति (FiveSense) भेदेभ्यश्चतुर्विधा भवन्ति ।
अत्र स्पर्शन- रसनेन्द्रियकायवाग्बलायुः श्वासोच्छवासादिभिर्युक्ताः द्वीन्द्रियाः । त्रीन्द्रियाश्च द्वीन्द्रियेभ्यो घ्राणेन्द्रियाधिकाश्चतुरिन्द्रियाश्चैतेभ्योऽपि चक्षुआत्मनां संसारिमुक्लत्वम्
१२३