________________
ये चात्र समनस्कास्तेषां सण्यिपीन्द्रियरूपाणि करणानि भवन्ति । अत एते शिक्षा-क्रिया-कलापादिग्रहीतु क्षमाश्चापि विद्यन्ते। समनस्कास्तावत् देवनारक-गर्भज-मनुष्य-तिर्यञ्चा एव भवन्ति, एभ्योतिरक्तास्तु अन्ये संसारिणो:मनस्काः समनस्कविपरीतलक्षणाः भवन्ति।
संसारिणामन्ये भेदाः (Kinds of Mundane Soul) यद्यपि ससारिणा विविधकर्मोपार्जनात्तेषा विविधात्मकत्वादनेके भेदाः सम्भवन्ति, पर मूलतः द्वावेव भेदौ वर्तेते। तथाहि-त्रसाः, स्थावराश्च । तत्र 'त्रस्यन्ति-उद्वेजयन्तीति असा' इतिव्युत्पत्या, गर्भादिष्वत्रसत्वप्रसङ्गात्, गर्भाण्डजादीना बाह्यनिमित्तेषु सत्स्वपि चलनाभावात्, 'गच्छतीति गौ' रिति व्युत्पत्तिवद् व्युत्पत्तिमात्रमेवार्थ., न तु प्राधान्येन । अथ चेमे त्रसनामकर्मोदयादेव 'त्रसा" इत्युच्यन्ते । स्थावरनामकर्मोदयाच्च तन्नामकर्मापादिताः जीवाः (Immobile); स्थावरा' इत्युच्यन्ते। अत्र 'तिष्ठन्तीत्येव शीलाः स्थावरा' इतिव्युत्पत्या वायवादीनामस्थावरत्वप्रसङ्ग , देशान्तरप्राप्तिदर्शनात् । अथ च द्वीन्द्रियादीनामेकत्र व स्थायिनाञ्च स्थावरत्वप्रसङ्ग स्यात् । आगमे तु 'असा नाम द्वीन्द्रियादारभ्य आ अयोगकेवलिन इति स्वीकृत, तदपि विरुद्धं स्यादतोऽत्र गमनागमनापेक्षं न त्रसस्थावरत्वं, अपि तु तत्तत् नामकर्मोदयापेक्षमेव । यद्यप्यनयोद्धयोः परस्परं संक्रमणमपि प्राप्यते, यथाहि-त्रसाः मरणानन्तरं स्थावरत्वमपि समधिगन्तु शक्नुवन्ति, परमनयोर्मध्ये स्पष्टतया सुखदुःखादेरनुभवात्मकत्वात् प्रसाणामेव प्राधान्यमिति । स्थावरभेदाः (Immobile-Soul) स्थावरजीवाः पृथिव्यप्तेजोवायुवनस्पतिकायात्मकाः पञ्चविधाः । श्वेताम्बरसम्प्रदायानुसार तु पृथिवि-जल-वनस्पतिकायानामेव स्थावरत्वम् । अत्रेदमवधेयं, यत् स्थावरत्रसाणां कर्मोदयापेक्षया क्रियापेक्षया च यद् विश्लेषणं कृतं, तत्र पृथिव्यम्बुवनस्पतीना तु कर्मोदयापेक्षयैव भेदः, यतश्च कर्मापेक्षया तु द्वयोरेव स्थावरत्वम् । ते च पञ्चविधाः यथा-१. पृथ्वीकाय (EarthBodied), २. जलकाया (Water-Bodied), ३. तेजस्कायाः (FireBodied), ४ वायुकायाः (Air Bodied),५ वनस्पतिकायाश्च (Vegetable-Bodied)। १२२
जैनदर्शन आत्म-द्रव्यविवेचनम