________________
आत्मनां संसारिमुक्तत्वम्
जगति जन्ममरणाद्यवस्थासु संसरन् तत्रानुरक्तो जीवः विविधानि कर्माणि कुर्वन् नानाप्रकारकं बन्धमनुभवति । एतस्मादनुभवात् भवाद्भवान्तरेषु विचरन् - कर्मबन्धात्मकत्वाद्यः परवशस्तिष्ठति स एव संसारीत्युच्यते । अत्राष्टविश्वकर्मकर्तृ त्वात्तदुपचयाच्चात्मनो भवान्तरप्राप्तिः संसारः । स च द्रव्यक्षेत्र काल-भाव-भवभेदः पञ्चविधः । स यस्यास्ति सः संसारीत्युच्यते' । बन्धश्चात्र द्रव्य भावभेदाद्विविधस्तत्र कर्मनो कर्मपरिणतः पुद्गलद्रव्यविषयको बन्धः द्रव्यबन्धः । क्रोधादिपरिणामवशीकृतश्च भावबन्धः । एवमुभयविधोऽपि बन्ध निरस्तस्ते जीवा एव 'मुक्ता' इत्युच्यन्ते ।
आत्मनः खलु ज्ञानदर्शनस्वभावात्तस्मिन् ससारावस्थायामुपयोगस्य प्रामुख्येन स्थितिः, यदा हि मुक्तात्मसु तस्य गौणत्वम् । यथा छद्मस्थेषु एकाग्रचित्तनिरोधरूपं ध्यानं प्रमुखं, केवलिनि तु तत्कर्मध्वंसफलेनैवोपचारात् गौणत्वं भजते, तथैव संसारिष्वपि पर्यायात्पर्यायान्तरात्मकत्वादुपयोगस्य प्रामुख्य भवति । मुक्तेषु च जीवेषूपलब्धि सामान्यत्वात्तद्गौणत्वमुपगच्छति ।
संसारिरणां द्वैविध्यम्
,
गत्यादिपरिणामानुभूतात्मका स्वसवेद्याः, शुभाशुभकर्मफलानुभवनसंबंधवशीकृतस्वभावाः, ससरणादप्रच्युताः, पूर्वोपार्जितकर्मनिमित्ताज्जनितकरणविशेषाः संसारिणस्तावत् समनस्कामनस्कभेदेन द्विविधाः भवन्ति ।
अत्र मनसोऽपि द्रव्य भावभेदेन द्वैविध्यम् । तत्र पुद्गलविपाकिनो नामकर्मण उदयापेक्षं द्रव्यमनः । वीर्यान्तरायस्य नोइन्द्रियाणाञ्च क्षयोमशमादुत्पद्यमानात्मविशुद्धिरूपं भावमनः । अत एतेन द्विविधेनापि मनसा सहिता जीवाः समनस्का: ( Rational ), तद्विरहिताश्चामनस्का: ( Irrational ) इत्युच्यन्ते । अत्र समनस्का: संज्ञित्वेनामनस्काश्चासंज्ञित्वेनाप्युच्यन्ते' । तेषां मनः सद्भावे संज्ञित्वमभावे चासंज्ञित्वमिति ।
१२१