Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 56
________________ भौतिक गुणानां सर्वथाभावोऽप्यस्मिन् स्यात् परमस्य स्वीया एव नवीनाः, निर्णयात्मकाश्च गुणाः स्युः ईयरद्रव्यस्याभौतिकमुदधिरिति । " ईथर - धर्मद्रव्ययो साम्यम् अथ च प्रो० जी० आर० जैनमहोदयरीरद्रव्यस्य धर्मद्रव्यस्य च तुलनात्मके विवेचने सुस्पष्टतया प्रतिपादितं - 'यदिदं सिद्ध, यद्धर्मद्रव्यं ईथरद्रव्यञ्चतादृशमैक्यं भजेते, यत्ते द्वेऽप्यभौतिके, अपारमाणविके, अविभाज्ये, अखण्डे, आकाशवव्याप्ते, अरूपे, गतेरनिवार्यमाध्यमे, स्वस्थिते च स्त' ।" सुप्रसिद्ध गणिताचार्यै प्रो० अलवर्टआइस्टीनमहोदयैरपि लोकालोकयोः मर्यादानिरूपणे स्वीकृतम् - 'यल्लोकस्तु परिमितोऽलोकश्चापरिमित । अतः लोकस्य परिमितत्वान्न काचन् द्रव्यशक्ति लोकाद्बहिर्गन्तु शक्नोति, तत्र तस्या शक्ते. ( या शक्ति गती सहायिका, तस्या ) अभावात् । नेनोपर्युक्तेन विवेचनेन परिज्ञायते, यदाधुनिकैवैज्ञानिकै यत् 'ईथरद्रव्यं' परिकल्पितं, तस्य च ये गुणा सन्ति, तेषां जैनै परिकल्पितेन धर्मद्रव्येण सर्वथा साम्य जातम, येन नेद कथनमनुचितं प्रतिभाति, धर्मद्रव्यमेव सम्प्रति 'ईथर' इतिनवीननाम्नाधुनिक वैज्ञानिक साक्षात्कृत, वस्तुतस्तु एतदेव बहुकालाद् भारतीय वाङ्मये जैनै 'धर्मद्रव्यम्' इतिनाम्ना ग्रहीतं विद्यते । अधर्मद्रव्यम् (Medium of rest ) यथा जीवपुद्गलानां गतावपेक्षितम् धर्मद्रव्यं तथैवैषां स्थितावप्यसाधारणकारणरूपेणाधर्मास्तिकायस्य कल्पना जैनदार्शनिकै कृता । धर्माधम द्वावेव सदृशौ विद्येने, यतश्च धर्म इवाधर्मोऽपि रूप-रस- गन्धस्पर्शशब्दादिरहितोऽमूर्तिक, निष्क्रिय उत्पाद - व्ययाभ्या परिणमनशीलोऽपि नित्यो विद्यते । परन्त्वनयो. कार्यभेद स्वाभाविकस्तद्यथा - धर्मो यथा जीवपुद्गलानां गतावसाधारणो हेतुस्तथैवायमधर्मोऽपि जीवपुद्गलाना स्थिताव साधारणकारणत्वात् स्थितिलक्षणोऽस्ति । जीवपुलाना स्थितावयमुदासीनो हेतु वर्तते, यथाहि - वृक्षच्छाया गच्छन्तं कञ्चन् पथिक न बला स्थापयति, अपितु स्थितेभ्य पथिकेभ्य आश्रयमेव ददाति यथा च पृथिवी गच्छत पशूत् न गमनान्निवारयति, अपितु तेषां स्थित आधारमेव प्रददाति तथैवायमधर्मोऽपि जीवान् पुद्गलाश्च न तु गमनान्निवारयति, नापि स्थित्यं प्रेरयत्यपितु तेषा स्थिती वृक्षच्छाया-पृथिवीवदेवोदासीन साहाय्य प्रकरोति । जैनदर्शने द्रव्यविवेचनम् ७५

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190