Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 52
________________ (Resultant) अमोनियास्कन्धे इमौ गन्धरसी स्याताम् ? न कश्चनाप्येतादृशो गुणो वर्तते यस्य परमाणावभावे सति स्कन्धे सत्ता स्यात् । अतोऽनेन यथानयोaat रसगन्धौ सिध्येते, तथैव वर्णोऽपि साध्यः स्यान्नत्वसाध्यः । अस्य केवलमयमेवाशयः यत् पुद्गले सर्वत्रव वर्णरस- गन्ध-स्पर्शानां साम्येनास्त्यस्तित्वम्, न तु कस्याप्यभावेन । शब्दस्य पुद्गलपर्यायत्वम पुद् गलद्रव्यस्य पर्यायाः - शब्दः ( Voice), बन्ध (Bondage), सौक्ष्म्यं (Fine-ness), स्थौल्यं ( Gross-ness ), सस्थानं ( Figure ), भेदः, तमः, छाया, आतपः (Hot Light), उद्योतादय: ( Cold-light ) " च । वैशेषिकादिभिरशब्दमाकाशगुणमभिहितम्, किन्त्वाधुनिकविज्ञानेन विविधेर्यन्त्रैरशब्द, संग्राह्य तस्य पौद्गलिकत्व साधितम् । शब्द: पौद्गलिकैरेव यन्त्रैर्ग्रह्यते, पौद्गलिकेनैव यत्रेण धार्यते, पौद्गलिकैरेव पदार्थैरवरुध्यते, कर्णपटलादीन् ( पौद्गलिकान् ) एव विदारयति, पीद्गलिकमेव वातावरणमनुकम्पयति, अतएवायमपि पौद्गलिक सिध्यति । अय स्कन्धानां पारस्परिक संघर्षात् संयोगात्, विभागाद्वोत्पद्यते, जिह्वातात्वादीना सयोगादपि नानाप्रकारका प्रायोगिकशब्दा उत्पद्यन्ते, अस्योत्पादकानि निमित्तकरणान्युपादानकारणानि च पौद्गलिकान्येव सन्ति । यदा स्कन्धाभ्या संघर्षात्किश्चन शब्द उत्पद्यते, तदा सः स्वशक्त्या पार्श्ववर्तिनः स्कन्धान्नपि शब्दायमानान् करोति, यथाहि-- जलाशये पाषाणखण्डे प्रक्षिप्ते समुत्पन्न प्रथमस्तरङ्ग स्वीयगतिशक्त्या स्वपार्श्ववर्तिनं जलमपि क्रमशस्तरङ्गयति, अथ चाय क्रम येन केन प्रकारेण स्ववेगानुसारमतिदूरमपि जलमतिक्रामति । इत्थ शब्दो नाकाशगुणोऽपितु पुद्गलपरिणाम एव । शब्दस्य पुद्गलगुणत्वनिरसनम् अत्रायम्प्रश्नः यद्यथा वर्ण- गन्ध-रस-स्पर्शा पुद्गलगुणास्तथैव शब्दस्यापि पौगलिकत्वे सिद्धे कथं न पुद्गलगुणत्व स्वीक्रियते, यतो हि यथा वर्णादयो क्रमशश्चक्षुरिन्द्रियादीना विषयास्तथैव शब्दोऽपि श्रोत्र न्द्रियविषयः । तन्न समीचीनं प्रतिभाति, यतो हि गुणा द्रव्यस्य आधारभूताः तलिङ्गाः " भवन्ति, अत शब्दो न पुद्गलगुण. नापि स पुद्गलद्रव्ये सर्वदा प्राप्यते । अतः स पुद्गलपरिणाम एव भवितु शक्नोति, यतश्च स पुद्गलस्कन्धानां . पारस्परिकसघर्षादुत्पद्यते । अनदर्शने द्रव्यविवेचनम् ७१

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190