Book Title: Jain Darshan Atma dravya vivechanam
Author(s): M P Patairiya
Publisher: Prachya Vidya Shodh Academy Delhi

View full book text
Previous | Next

Page 37
________________ बौद्धग्रन्थेषु च वर्तमाना उल्लेखा एतस्य प्रमाणकाः, यत् नाथपुत्रात् महावीरात्प्रागपि निर्ग्रन्थानां (येऽधुना 'जैन' पदेन 'अर्हत्' पदेन वा प्रसिद्धा ) अस्तित्वमासीत् । यदा बौद्धधर्मो समुद्भूतस्तदा निर्ग्रन्थानां सम्प्रदायस्य महान् समादरः स्वतंत्रसम्प्रदायरूपेण आसीत् । बौद्धपिटकेष्वपि केषाञ्चत् निर्ग्रन्यानां बौद्धधर्मस्वीकरणस्य, केषाञ्चन च तद्विरोधित्वेनोल्लेखो विद्यते । एभिरुल्लेखे रप्युपयुंक्तसिद्धान्तस्यानुमानं भवति । अथ चैतद्विपरीतमेषां ग्रन्थेषु कुत्रचिदप्येतादृश उल्लेखो न प्राप्यते यत्र निर्ग्रन्थसम्प्रदायस्य नवीनं स्वरूपं स्पष्टं भवेत् । तस्य संस्थापकत्वेन च नाथपुत्रस्य महावीरस्याप्युल्लेखो न प्राप्यते । अतएवानेन हेतुना सिद्धान्तोऽयं सिद्ध्यति यन्महावीरस्वामिना न जैनधर्मः संस्थापितोऽपितु बुद्ध-महाव़ी रसमयात्प्रागेवातिप्राचीनकालान्निर्ग्रन्थानामस्तित्वं विद्यमानमासोत् । फ्रांसदेशीयविदुषा गेरिनाटमहोदयेनापी दम्मतं समर्थितम् । प्रागीशवीयाष्टमशताब्दीतोऽप्यस्य प्राचीनत्वम् एभिरुपर्युक्त कथनैरिदं स्पष्टं भवति यत् ख्रिष्टाब्दात्प्रागष्टमशताब्द्यां पार्श्वनाथेन जैनधर्मस्य प्रचारः कृत आसीत् । जैनमान्यतानुसारं तु प्रत्येकस्मिन् युगेऽने कैस्तीर्थकरैः पुनः पुनः जैनधर्मस्योद्योतनं कृतम् " । विद्यमानस्य युगस्याद्यतीर्थकरो ऋषभदेवोऽन्तिमौ च तीर्थकरौ पार्श्वनाथमहावीरौ स्तः । पार्श्वनाथविषये विदेशीयाः लैसनमहोदयाः कथयन्ति यदस्य जिनस्यायुस्तत्पुरोगामिनामिव सम्भावितमर्यादायाः अनुल्लङ्घिन्यतोऽयमेवास्यैतिहासिकत्वस्य सिद्धयं अलम्" । तथा च मथुराया प्राप्तर्जेनशिलालेखैरपि ज्ञायते यद्गृहस्थाः ऋषभदेवमर्घ्यप्रदानमकुर्वन्" । इमे ग्रहस्थाः इन्डोसायथिककालिका: ( Indosythic) भवितव्याः, इति सुस्पष्टं प्रतिभाति । अथवा यदि कनिष्कस्य तद्वंशजानाञ्च समये शकयुगेन सह मिलितास्ते गृहस्था अभविष्यंस्तर्हि प्रथमद्वितीयशताब्दिका इमे लेखा : " प्रतिभान्ति । अयमर्घो विशेषतया एकाधिकेभ्योऽर्हद्भयस्तथा व मुख्यतया ऋषभायार्पितः, अत एतेनास्य मतस्य पुष्टिर्भवति यज्जैनधर्मस्य प्रारम्भिक कालोऽतिप्राचीनस्तथा च ऋषभदेवात्समारभ्य क्रमशः अनेकास्तीर्थकरा. प्रादुर्भूताः । एष्वाधारेषु पाश्चात्यैः भारतीयैश्च निष्पक्षैरनेकै ऐतिहासिकः स्वीकृतं यज्जैनधर्मोऽतिप्राचीनकालात्प्रचलितस्तथा च वेदेष्वपि जैनधर्मस्य तीर्थकराणामुल्लेखो विद्यते । भारतवर्षस्य भूतपूर्वराष्ट्रपतिभिः डा० राधाकृष्णन् महोदयैरप्यस्य " समर्थनं कृतम् । जैनदर्शनस्य प्राचीनता, प्रन्थान्तरेषु च तदुल्लेख: ૪૧

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190