________________
बौद्धग्रन्थेषु च वर्तमाना उल्लेखा एतस्य प्रमाणकाः, यत् नाथपुत्रात् महावीरात्प्रागपि निर्ग्रन्थानां (येऽधुना 'जैन' पदेन 'अर्हत्' पदेन वा प्रसिद्धा ) अस्तित्वमासीत् । यदा बौद्धधर्मो समुद्भूतस्तदा निर्ग्रन्थानां सम्प्रदायस्य महान् समादरः स्वतंत्रसम्प्रदायरूपेण आसीत् । बौद्धपिटकेष्वपि केषाञ्चत् निर्ग्रन्यानां बौद्धधर्मस्वीकरणस्य, केषाञ्चन च तद्विरोधित्वेनोल्लेखो विद्यते । एभिरुल्लेखे रप्युपयुंक्तसिद्धान्तस्यानुमानं भवति । अथ चैतद्विपरीतमेषां ग्रन्थेषु कुत्रचिदप्येतादृश उल्लेखो न प्राप्यते यत्र निर्ग्रन्थसम्प्रदायस्य नवीनं स्वरूपं स्पष्टं भवेत् । तस्य संस्थापकत्वेन च नाथपुत्रस्य महावीरस्याप्युल्लेखो न प्राप्यते । अतएवानेन हेतुना सिद्धान्तोऽयं सिद्ध्यति यन्महावीरस्वामिना न जैनधर्मः संस्थापितोऽपितु बुद्ध-महाव़ी रसमयात्प्रागेवातिप्राचीनकालान्निर्ग्रन्थानामस्तित्वं विद्यमानमासोत् । फ्रांसदेशीयविदुषा गेरिनाटमहोदयेनापी दम्मतं समर्थितम् ।
प्रागीशवीयाष्टमशताब्दीतोऽप्यस्य प्राचीनत्वम्
एभिरुपर्युक्त कथनैरिदं स्पष्टं भवति यत् ख्रिष्टाब्दात्प्रागष्टमशताब्द्यां पार्श्वनाथेन जैनधर्मस्य प्रचारः कृत आसीत् । जैनमान्यतानुसारं तु प्रत्येकस्मिन् युगेऽने कैस्तीर्थकरैः पुनः पुनः जैनधर्मस्योद्योतनं कृतम् " । विद्यमानस्य युगस्याद्यतीर्थकरो ऋषभदेवोऽन्तिमौ च तीर्थकरौ पार्श्वनाथमहावीरौ स्तः । पार्श्वनाथविषये विदेशीयाः लैसनमहोदयाः कथयन्ति यदस्य जिनस्यायुस्तत्पुरोगामिनामिव सम्भावितमर्यादायाः अनुल्लङ्घिन्यतोऽयमेवास्यैतिहासिकत्वस्य सिद्धयं अलम्" । तथा च मथुराया प्राप्तर्जेनशिलालेखैरपि ज्ञायते यद्गृहस्थाः ऋषभदेवमर्घ्यप्रदानमकुर्वन्" । इमे ग्रहस्थाः इन्डोसायथिककालिका: ( Indosythic) भवितव्याः, इति सुस्पष्टं प्रतिभाति । अथवा यदि कनिष्कस्य तद्वंशजानाञ्च समये शकयुगेन सह मिलितास्ते गृहस्था अभविष्यंस्तर्हि प्रथमद्वितीयशताब्दिका इमे लेखा : " प्रतिभान्ति । अयमर्घो विशेषतया एकाधिकेभ्योऽर्हद्भयस्तथा व मुख्यतया ऋषभायार्पितः, अत एतेनास्य मतस्य पुष्टिर्भवति यज्जैनधर्मस्य प्रारम्भिक कालोऽतिप्राचीनस्तथा च ऋषभदेवात्समारभ्य क्रमशः अनेकास्तीर्थकरा. प्रादुर्भूताः । एष्वाधारेषु पाश्चात्यैः भारतीयैश्च निष्पक्षैरनेकै ऐतिहासिकः स्वीकृतं यज्जैनधर्मोऽतिप्राचीनकालात्प्रचलितस्तथा च वेदेष्वपि जैनधर्मस्य तीर्थकराणामुल्लेखो विद्यते । भारतवर्षस्य भूतपूर्वराष्ट्रपतिभिः डा० राधाकृष्णन् महोदयैरप्यस्य " समर्थनं कृतम् ।
जैनदर्शनस्य प्राचीनता, प्रन्थान्तरेषु च तदुल्लेख:
૪૧