________________
अत्र एषु सूत्रेध्वीश्वरशब्दस्यं परमेश्वराचे प्रयोगादेषां सूत्राणां पाकि नितः प्राचीनता, तथा च महाभाष्यकारपतञ्जलेः, योगसूत्रकारपजञ्जलेश्चाभिन्नतापि विद्वद्भिर्विचारणीया ? अथ च व्यासमहोदयानां श्रीमद्भगवद्गीतायामीश्वरशब्दस्य प्रयोगो क्वचिद्राशोऽर्थे क्वचिच्च परमेश्वरेऽर्थे (द्विप्रकारकः) प्राप्यते । 'ईश्वरोऽहमहंभोगी, सिद्धोऽहं बलवान्सुखी"त्यत्र राज्ञोऽर्थे, 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठती'त्यत्र च परमेश्वरेऽर्थे विद्यतेऽत इदमपि विचारणीय विद्यते ।
ईश्वरस्यानावश्यकता वस्तुतस्त्वेषु सिद्धान्तेषु ईश्वरस्यावश्यकता नावश्यिकी प्रतिभाति, यतो हि-दार्शनिकविचारानुसारं तु नेश्वरः परमपुरुषार्थप्राप्त्यै सहायकः, तदर्थ तु विभिन्नार्शनिकैः स्वस्वदर्शनेष्वभिव्यक्तानां पदार्थानां तत्त्वज्ञानादेव मोक्षप्राप्तिरभिहिता। तथा हि-कणादेन स्वषड्पदार्थज्ञानं," गौतमेन च षोडशपदार्थानां तत्त्वज्ञानं,' कपिलेन च प्रकृति पुरुषयोर्भेदज्ञान मोक्षावाप्तिकारणमुक्तम् । पतञ्जलिना तु 'योगश्चित्तवृत्तिनिरोधः। तदा द्रष्टुः स्वरूपेडवस्थानम्" इत्युक्तम् । एवञ्च जैमिनिना धर्मानुष्ठानेन नित्यसुखरूपा मोक्षसत्ताभिहिता । ईश्वरस्योपयोगस्त्वेषां सिद्धान्तेष्वायाति नैव ।
एभ्योऽनन्तर जातैः भाष्यकारैरन्यान्यटीकाकारश्च सहान्यान्यग्रन्थकाररपि (न्यायकुसुमाञ्जलिकार, ईश्वरानुमानचिन्तामणिकारश्च) वैशेषिके, न्यायदर्शने च प्रत्यक्षत एवेश्वरस्य प्रवेशः कृतः । किन्तु मीमांसायां, सांख्यदर्शने च कस्मिंश्चिदपि ग्रन्थे प्रत्यक्षत ईश्वरसिद्धरुल्लेखस्याभाव एव वर्तते । परं शङ्कराचार्यमहाभागैस्तु 'पत्युरसामञ्जस्यात्' इति सूत्रभाष्ये निगदितम्'केचित्तावत् सांख्ययोगव्यपाश्रयाः कल्पयन्ति प्रधानपुरुषयो अधिष्ठाता केवलं निमित्तकारणमीश्वरः, इतरेतरविलक्षणाः प्रधानपुरुषेश्वराः, इति । वैशेषिकादयोऽपि केचित् कथञ्चित्स्वप्रक्रियानुसारेण निमित्तकारणमीश्वर इति वर्णयन्ति ।'५
अनेनेयत्तु सुस्पष्टमेव ज्ञातं यत्सांख्यस्य वैशेषिकस्य च प्रक्रियायाः मूले नासीदीश्वरस्वीकारः, तदपि कैश्चिद्भविष्ये ईश्वरप्रवेश कारितस्तत्र । एवमेव मीमासकेष्वपि यत् 'कर्मणा ईश्वराय समर्पणेन मोक्षो भवती' त्युक्त्वा ईश्वरप्रवेशः कारितः । अस्माद्धेतोः यदि वेदानां यमः, प्रजापतिः, सूर्योऽग्निः, पुरुषो মনীষীপালি