________________
नानां परमात्मा
जैनदर्शनानुसारं साधारणोऽप्यात्मा स्वीयं वास्तविकं स्वरूपमजानन्ननादिकालाद्रागद्वेषेष्वासक्तोऽतः स न कदापि शांतो भवति । रागद्वेषाभ्यां विमुञ्चते सत्यात्मा शान्तो स्वस्थश्च भवति । यदा बाह्यकृत्रिमव्यवहारेभ्यः सर्वथा विमुक्तो भवति, तदा स्वकीये वास्तविके जीवने तिष्ठन् सर्वशः सर्वानन्दमयोऽविनाशी, किम्बहुना परमात्मैव भवति । इत्थमत्र नास्ति परमेश्वरस्येश्वरस्य वा सत्तायाः निषेधोऽपितु परमात्मनि प्राणिनामन्यपदार्थानाञ्चोत्पादकत्वस्य दण्डप्रदानस्य पारितोषिकप्रदानस्य वा गुणो नास्ति । अतः कथं जैन दार्शनिकान् आत्मन: ( परमात्मन) पवित्रां सत्तां स्वीकृतेऽपि तेषां श्रेण्यां स्थातु शक्नुमः येषां सिद्धान्ते देहात्पृथगात्मनः सत्ता स्वीकृता विद्यते ? ईश्वरशब्दप्रयोगः
किञ्च, संस्कृत वाङ्मयस्य परिशीलनेनेदं ज्ञायते, यदीश्वरशब्दस्य परमेश्वरेऽर्थे प्रयोगोऽर्वाचीनसमयादेव संस्कृतसाहित्ये प्रयुक्तः, न पुरेश्वरस्यार्थः 'परमेश्वर' इति ग्रहीतः स्यात् । पौराणिककाले शैवसिद्धान्ते शिवाय य ईश्वरशब्दस्य प्रयोग आसीत् स एव पौराणिककालानन्तरं शैवधर्मात् संस्कृतावपि प्रविष्टोऽभूत । शनैरशनैश्चेश्वरार्थेऽपि प्रचलितः । नास्तीदानी काप्येतादृशी पुस्तिका यस्यामीश्वरशब्दात्परमेश्वरस्यार्थो नावगम्यते । ईश्वरशब्दस्यार्थः
किञ्च पाणिनीयसूत्रेषु ईश्वरशब्दस्यार्थान्वेषणेन ज्ञायते यत्-ईश्वरशब्दस्य प्रयोगः स्वाम्यर्थे एव" विद्यते । पतञ्जलेः उदाहरणेष्वीश्वरस्यार्थः 'राजा'" अपि प्राप्यते । सत्यामिमामवस्थायामीश्वरशब्दस्य परमेश्वरेऽर्थे प्रयोगात्प्रागेव दार्शनिकदृष्ट्या 'ईश्वर स्वीकुर्वाण आस्तिका, अस्वीकुर्वाणश्च नास्तिका:' इति मतमासीदिति कथं कथितुं शक्नुमो वयम् । यदा हि तस्योत्पत्तिः स्थितिश्च ईश्वरपरमेश्वरसम्बन्धि - परिभाषायाः प्रागेव सिध्यति ।
किञ्च यदा पुरेश्वरस्वीकारास्वीकार एवास्तिकनास्तिकव्यवहारहेतुरासीत्तत्कथ वैशेषिकैः, सांख्य, पूर्वर्म मासकैश्च ( कणाद - कपिल - जैमिनिभिश्च ) स्वीयेषु दर्शनेषु ईश्वरस्योल्लेखोऽपि न कृत ? 'ईश्वर. कारणं पुरुषकर्माफल्यदर्शनादित्युक्त्वा नैयायिकेन गौतमेन, 'क्लेशकर्म विपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वर:' इत्युक्त्वा" योगिना पतञ्जलिना चानुषङ्गिकस्येश्वरस्य प्रसङ्ग उत्थापितः ।
३८
जैनदर्शन आत्म- द्रव्यविवेचनम्