________________
दर्शनानामेभिः परिगणनेनंतु नामसु नापि संख्यासु कुत्रापि मतैक्यं प्रतिभाति । सत्यामिमावस्थायां 'षड्दर्शनमिति' शब्देन कोऽर्थोऽवगम्येत ? वस्तुतस्तु-नास्त्यस्य शब्दस्य कश्चन् विशिष्टोऽभिप्रायोऽतो न कोऽपि प्रामाणिकः सिद्धान्तः 'षड्दर्शनमि'त्याधारेण निश्चेतु शक्यते । दर्शनानां वर्गीकरणम् एषां सर्वेषामपि दर्शनानां यो विभागो मुख्यतयास्तिक-नास्तिकात्मको दार्शनिकः कृतो विद्यते, तत्र केचन् वैदिकदर्शनान्यवैदिकदर्शनानीत्युक्त्वा पूर्वोक्तमतात्किञ्चित्स्वमतवैभिन्न्यं प्रकटयन्ति। परन्त्यत्रापि स्यूलरूपेण वैदिकदर्शनपदेनास्तिकदर्शनाना, अवैदिकदर्शनपदेन च नास्तिकदर्शनानामेव बोधो भवति । इत्थं भारतीय-दर्शनस्य प्रमुखतया द्वावेव भेदौ वर्तते। तत्र जनदर्शनस्य स्थानं प्रायशः नास्तिक एव विभागे दार्शनिकै स्वीकृतम् । परमत्र पूर्वोक्तआस्तिकनास्तिकविभागे येषां दार्शनिकसिद्धान्तानां गणनाचार्य कृत्ता विद्यते, सा न न्यायोचिता, यतो ह्ययास्तिकशब्दस्य याः व्याख्याः प्राचीनतमैराचार्य: कृताः विद्यन्ते, तदनुसारन्तु नास्तिक-विभागस्थितानां केषाञ्चन् दर्शनानां ग्रहणमास्तिकविभागेऽथ च नास्तिकशब्दस्य याः परिभाषास्तत्र प्राप्यन्ते, तदनुसारमास्तिकविभागस्थितानामनेकदर्शनाना स्थानं नास्तिकश्रेण्यामेव भवितव्यम् । अतोऽत्र विचारे कृते सति ज्ञायते यदस्य विभाजनस्यापि न प्रामाण्यम् । एतदर्थमेतावताकालेन निश्चितानामास्तिक-नास्तिक-परिभाषाणां पर्यालोचनमावश्यकम् । आस्तिक-नास्तिकविवेचनम् संस्कृतवाङ्मये आस्तिक-नास्तिकविषयमधिकृत्यानेकानि भिन्नानि मतानि सन्ति, परन्त्वद्यप्रभृति प्रमुखानि चत्वार्येव निम्नाङ्कितानि मतानि सन्ति
१. पाणिनेः सिद्धान्तानुसारं 'यः जगतः कारणं सत् (भावरूपं) स्वीकरोत्यर्थात् उत्पत्तेः प्रागपि जगतोऽस्तित्वमासीद् इति स्वीकरोति स आस्तिकः, यश्चान्य. जगतः कारणमसत् (अभावरूपं) स्वीकरोत्यर्था'दुत्पत्तेः प्राक् जगतोऽस्तित्वं नासीदिति' स्वीकरोति सः नास्तिक. ।
२. 'य इहलोक परलोकञ्च स्वीकरोति, स आस्तिकः' 'यश्चेमे अस्वीकरोति सः नास्तिक' इति, पतञ्जले: सिद्धान्तः ।
जैववर्शन मात्म-ब्यविवेचन
३२