________________
पाक्यते । ऋषीणामिमा अनुभूतयो वैयक्तिकत्वाद् भिन्नाः भिन्ना आसन्, बतएव पृथक्पृथग्विभिन्नदर्शनानां समूहोऽद्यावलोक्यते । वर्शनानां संख्यानिर्णयः दर्शनानां संख्याविषये 'षड्दर्शन मिति नाम बहुधास्माभिः श्रुतम् पठितञ्च परमस्यान्तःभूतानि कानि दर्शनानि, कानि चास्माद्बहिर्भूतानि ? अब नास्ति कयोरपि द्वयोः विदुषोरेकमत्यम् । अथ चायं 'षड्दर्शनम्' इति शब्दोऽपि नातिप्राचीनतम. । अत्रेदमप्यवधेयम्-यद्दर्शनानां संख्या न कदापि सुनिश्चितासीत, नापि भवितु शक्नोति । यस्य विदुषः येषु दर्शनेषु स्नेह आसीतेषामेवास्यान्तःपरिगणनं तेन कृतमथवा नियतसंख्याकानामपि परिगणनं विधाय प्रतिपादनं कृतम् । तद्यथाप्राचीनतमेषु ग्रन्थेषु शङ्कराचार्यस्य 'सर्वसिद्धान्तसंग्रहो' मुख्यः । अस्मिश्च क्रमश:-लोकयत--आईत्-बौद्ध (वैभाषिक-सौत्रान्तिक-योगाचारमाध्यमिकाः) वैशेषिक-न्याय-भाट्टमीमांसा-प्राभाकरीममांसा-सांख्यपातजल-व्यास-वेदान्तादीनां दशदर्शनानां चर्चा विद्यते । हरिभद्रसूरिणा स्वीये 'षड्दर्शनसमुच्चये'--बौद्ध-नैयायिक-कपिल-जैन-वशेषिकजैमिनिप्रभृतिषड्दर्शनानां विवेचन कृतम्। जिनदत्तसूरिमहोदयश्च स्वीये 'षड्दर्शनसमुच्चय'नाम्निग्रन्थे-जैन- मीमांसा - वौद्ध-सांख्य-शव-नास्तिकादीनां षड्दर्शनाना परिगणनपूर्वकं प्रतिपादन कृतम् । राजशेखरसूरिणा च-जैनसांख्य-जैमिनि-योग-(न्याय) वैशेषिक-सौगतादिदर्शनानां विवेचनं, तथा च काव्यानां टीकाकर्तृरूपेण प्रसिद्धानां मल्लिनाथमहाभागानां पुत्रण-पाणिनिजैमिनि-व्यास-कपिल अक्षपाद-कणादादिदर्शनानां विश्लेषणम् षड्दर्शनरूपेण कृतम् । हयशीर्षपञ्चरात्र गुरूगीतायाञ्च, गौतम-कणाद-कपिल-पतञ्जलिव्यासजैमिनिप्रभृतीनामन्त वो षड्दर्शनरूपेण विद्यते। अथ च 'शिवमहिम्न स्तोत्र' सांख्य-योग-पाशुपत वैष्णवदर्शनानां, कौटिल्यस्यार्थशास्त्र-सांख्य-योग-लोकायताना, माधवाचार्यस्य 'सर्वदर्शनसंग्रहेचार्वाक-बौद्ध-आर्हत्-रामानुज-पूर्णप्रज्ञ (माध्व)-नकुलीशपाशुपत-शैव-रसेश्वरऔलूक्य-अक्षपाद-जैमिनि-पाणिनि-सांख्य-पातञ्जल-शाङ्करप्रभृतीनां, मधुसूदन सरस्वतिना च सिद्धान्तबिन्दौ, शिवमहिम्नःस्तोत्रस्य टीकायाञ्च-न्यायवैशेषिक-कर्ममीमांसा-शारीरकमीमांसा-पातञ्जल-पञ्चरात्र - पाशुपत-बौद्धदिग-म्बर-चार्वाक-सांख्य-औपनिषप्रतिदर्शनानां नामोल्लेखः विसदंशसंख्याकः प्रतिपादितः।
दर्शनशम्बस्योत्पत्तियुत्पत्तिविशेषार्थश्च