________________
वर्शनाध्वस्य व्युत्पत्तिः दर्शनशब्दस्य व्युत्पत्तिः 'दृशिर्' (भ्वा० पर०) धातोः ल्युट्प्रत्ययेन भवति, यस्यार्थः 'दृश्यते येन' इति । दर्शनमिदं स्थूलनेवाभ्यामपि, सूक्ष्मचक्षुषापि च भवति, यद् 'दिव्यचक्षुः' 'प्रज्ञाचक्षुः' 'ज्ञानचक्षु रित्यप्युच्यते । स्थूलसूक्ष्मोभयप्रकारका एवं जगति स्थिताः पदार्था दर्शनविषयभूताः। अथ च परमतत्त्वस्य प्राप्त्य उभयविधयोरेव साक्षात्कार आवश्यकोऽतः दर्शनशब्दस्य प्रयोग स्थूलसूक्ष्मोभयोरप्यर्थयोविद्यते । एवमिदं दर्शनमिन्द्रियजन्यनिरीक्षणं प्रत्ययीज्ञानं, अन्तर्दष्टेरनुभवो वा भवति । तच्च घटनानां सूक्ष्मेक्षणेन तार्किकपरीक्षणेनात्मनोऽन्तनिरीक्षणेन वाभिगम्यते । वर्शनशब्दस्य प्रयोगः साधारणतया दर्शनशब्दस्य प्रयोग आलोचनात्मकव्याख्यानेषु, (भाष्येषु) ताकिक सर्वेक्षणेषु, दार्शनिकपद्धतिसु वैव क्रियते। किन्तु प्रारम्भिकदार्शनिकविचारसरण्यां दर्शनशब्दस्य प्रयोगो नैष्वर्थेषु प्राप्यते, यतस्तस्मिन् काले दार्शनिक ज्ञानमाभ्यन्तरदृष्टिपरकमेवाधिकमासीत्, अतोऽनेन ज्ञायते, यत्तदर्शनमन्तर्दृष्ट्या सम्बद्धमप्यन्तर्दृष्टिपरकं नासीत् । सम्भाव्यते च यदस्य प्रयोगो बहुतर्कवितर्कानन्तरं तस्य विचारपद्धत्य जातः, यस्याः प्राप्तिस्त्वन्तदृष्टिजन्यानुभवतः, पर पुष्टिः युक्तिप्रमाणैरेव भवति । दर्शनशब्दस्य साक्षात्कारेऽर्थे विप्रतिपत्तयः दर्शनशब्दस्य स्पष्टः स्थूलश्चार्थः 'साक्षात्कारः' -प्रत्यक्षज्ञानेन कस्यचिद्वस्तुनो निर्णयः, इत्येवास्ति । यदि दर्शनस्यायमेवार्थो स्वीक्रियेत् तहि कथं विभिन्नेषु दर्शनेषु परस्पर विरोधोऽवलोक्यते ? प्रत्यक्षज्ञानेन साक्षात्कृतेषु पदार्थेषु न मतभेदो, विरोधः, सशयो वा भाव्यः ? यथा खलु आधुनिकस्य विज्ञानस्य सिद्धान्तानां प्रयोगशालायां प्रत्यक्षे कृते सति, न तेषु कश्चन मतभेदो भवति । मतभेदो विरोधो वा तत्र तावदेव भवितुमर्हति, यावन्न तस्य प्रयोगस्य सिद्धिर्भवति । किञ्च दर्शनेषु यदायं पारस्परिको विरोधोऽवलोक्यते, तदायं सन्देहस्तु स्वाभाविक एव, यद् दर्शनस्य किमवितथमेवार्थ. साक्षात्कारः ? यद्ययमेवार्थस्तदाय साक्षात्कारः कि समग्रस्यापि वस्तुनो साक्षात्काररूपः, आहोस्वित् कस्यचिदेकधर्मस्यांशस्य वा ? यदि समग्रस्यव साक्षात्काररूपस्तकिमस्य वर्णनविधावेव कश्चन विशेष: ? दर्शनानामस्य विरोधस्य कश्चनेतादृश एव हेतुर्भवितव्यः, अन्यथा सर्वैरेव दार्शनिकैः साक्षात्कृतस्यात्मनो विषयेऽपि (दर्शनाधार विषयेऽपि) नैतादशवपरीत्यं स्यात्।
२६
जनदर्शन मात्म-द्रव्यविवेचनम्